पृष्ठम्:श्रीसुबोधिनी.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
दशमस्कन्धसुबोधिनीटिप्पण्यो प्रकाशः।


कृतपदस्यायमेवाशयः । तदेव विवृएवन्ति । तथाचेत्यादि । तन्नियतकार्यविषयस्येति । अन्यथा भानविषयस्य मानुषत्वस्येत्यर्थः । अत्रे इदं सम्पद्यते। मातृप्रार्थनया चतुर्म्यहरूपं तिरोधाप्य प्रादुर्भूते पुरुषोतमरूपे यन्मनुष्यतया प्राकृतत्वभानं सम्पादितवान् तेन शुक्तौ वृतिरूपस्य रजतस्येव स्वस्मिन् प्राकृतमनुष्यत्वस्याप्युत्पत्तिनिरूपितेति तात्पर्यम् ॥ १५ ॥ १६ ॥ २७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥२४॥

 सत्यवतमित्यत्र । स्तुतिश्लोकसंख्यातात्पर्ये वदन्तो निबन्धे सङ्कर्षणोत्पतिद्धितीयाध्यायार्थो दैत्यवधार्थत्वस्य स्फुटत्वादिति यदुक्तं तदत्र प्रहैष मे प्राणहरो हरिर्गुहामित्यनेन कंसस्यापि सङ्कर्षणस्य . ज्ञानकथनाद्यथा स्फुटं तथा स्वरक्षकत्त्वं देवानां ज्ञानादपीति ज्ञापयितुमाहुः । कालात्मेत्यादि । भगवान् पुरुषोत्तमः प्रश्नोपनिषदि षोडशकल इति श्रावणात् कलाभिः कालात्मा जात इति ज्ञापयितुं तथास्तुतिः षोडशभिः स्तुतिरित्यर्थः । अत्र प्रकारमाहुः स्वपक्षख्यापकैः पञ्चदशभिर्हि पषा देवानां हितकारिणी पक्षपातस्तुतिः । षोडशी ध्रुवा भक्तहितकारिणी स्वभाविकत्वान्निश्चलेति। ननु भवत्वेवं तथापि षोडशकलत्वेन कथं कालावगम इत्यत आहुः । वृद्धौ वा तादृशो भवेदिति । वा शब्दोऽवधारणे। तथाच तिथिवृद्ध्या तदवगम इत्यर्थः । एतदेव स्फुटी कुर्वन्ति । अत्रेत्यादिना । तथाच स्तुतिसान्त्वनरूपविधाभेदाद्द्वैविध्येऽपि सान्त्वनश्लोके परः पुमानित्यादिकथनात् षोडशानामपि भगवत्स्तुतित्वमेव यदि च पुरुषोत्तमस्य गर्भसबन्धाभावानैतेषां साक्षात्पुरुषोत्तमस्तुतित्वं तदातु षोडशभिः कालात्मकस्यैव स्तुतिरितिसिद्ध्यति ।तत्र पञ्चदसभिः कालात्मकस्तुतिं व्युत्पादयन्ति । कालइत्यादि । अर्द्धेन निरूप्यत इत्यन्तं अर्द्धनेति । त्रिंशदर्द्धन तर्हि षोडशभिः कथं स्तुतिरित्यतस्तांव्युत्पादयन्ति । सचेत्यादि चतुर्द्धेत्यन्तं सचेति चावधारणे सइति । षोडशभिः श्लोकैरुक्तः। तेनेदं सिध्यति । आध्यात्मिके द्वापरादिरूपे काले विपक्षे सति तत्कार्यप्रतिबन्धार्थं कृपया भगवानाधिदैविककालरूपोऽभवत्तदंशैर्लो कादिभिर्लोकादिविभाजकप्रमाणाद्युपाधिभिश्च पक्षपातीजात इति । एवं षोडशधाविभागमुपपाद्य तत्प्रयोजनमाहुः । दैत्यकृतादि । दैत्येषु कृतादुपकारात् स्वपक्षपातस्याधिक्यं वक्तुमत्र षोडशधोच्यत इत्यर्थः । लोककृतं चातुर्विध्यं विभजन्ते । तत्रेत्यादि। पतस्यैव