द्वितीयाध्यायतात्पर्यM निरूपयन्त उपजीवकत्वमत्र सङ्गतिरित्याहुः ।
एवमिति ननूद्यमनिरूपणस्य किम्प्रयोजनामत्याकाक्षायां टिप्पण्याम् ।
विवृण्वन्ति । भगवदित्यादि । तथाचैवं भक्तवात्सत्यस्वभावं भगवतो ज्ञापयितुं
हेतोमहत्वज्ञापनमित्यर्थः । यद्यप्येवंविधं हेतोर्महत्वं प्रल्हादेऽपि वर्त्तते ।
परं ज्ञानविशिष्टया मर्यादाभक्त्यापि रक्षितः । प्रकृतेतु तथा
नास्तीतिप्रयोजनान्तरमेवोद्यमस्य वक्तव्यं इत्याशयेन प्रकारान्तरमाहुः ।
अथवाऽन्येभ्य इत्यादि । एतावतापि न पूर्त्तिरध्यायतात्पर्यस्येति प्रकारान्तरमाहुः ।
अथवा महत्त्वमित्यादि । एते त्रयोपि पक्षाः मूलश्लोकेभ्य एव स्फुटं
प्रतीयन्तरतित्रयाणां समुश्चय एव नतु विकल्पः। तेनाथवेत्यत्र वा
शब्दोऽवधारणे ज्ञेयः तथाच पूर्वं हेतुमहत्वं ज्ञात्वा तदनन्तरं उक्तप्रकारेण
महत्वद्वयमवधारणीयमिति बोधयितुमाचार्यैरयं धर्मः श्लोकउक्तइत्यर्थो
वाशब्दस्य बोध्यः । सुबोधिन्यामेतदेव स्पष्टी कुर्वन्ति ।
दुःखहेतुरित्यादि । इह प्रपञ्चे आगन्तुं भगवदागमनाय भक्तानां
दुःखहेतुरिति बोधाय तत्कथादुःखकथा शीघ्रगमनहेतुका
शीघ्रागमनकारणजन्या पुनः स्पष्टा निरूप्यत इत्यर्थः । एतेन महत्वेत्यर्द्धस्थ
प्रथमोर्थः स्फुटीकृतः । द्वितीयार्थं स्फुटीकर्तुमाहुः। सर्वेषामित्यादि ।
तथाच सर्वेषां दैत्यानां भगवदवतारज्ञापनार्थ आहैष मे प्राणहरो
हरिगुहामित्यादिकंसवाक्यमवतारान्तरेभ्योऽआधिक्यबोधकमित्यर्थः
तृतीयं स्फुटी कुर्वन्ति । तथास्तुतिरित्यादि । स्तुतिः ब्रह्मादिकर्तृका
तथा पुरुषोत्तमत्त्वज्ञापिका । अन्यथा स्तुत्यादिकं न कृतं स्यात्तदा
पुरुषोत्तम एव प्रादुर्भूत इति कथा निश्चितं भवेदित्यर्थः ॥१॥२॥३॥
टिप्पण्यां हतोष्वित्त्यत्र । आसुरहननमिति । षट्पुत्रहननं केशिन्यां हिरण्यकशिपुभार्यायां हिरण्यकशिपुपुत्रत्वेनासुरत्वादिति । सुबोधिन्यां सप्तमो वैष्णवत्वमित्याभासे । बुद्ध्येति भगवबुध्या धर्मस्थानभूत इति कंसहतानां धर्माणां स्थानभूतः एतेनैतषामक्षरधर्मत्वं योधितं पुरुषोत्तमधर्माणामनिवार्यत्वादिति । नचाऽऽसन्मरीचेः षट्पुत्रा इत्यादिगुणप्रकरणीयसन्दर्भविरोधः । तदैवैतत्प्रकारेण भवतीति