पृष्ठम्:श्रीसुबोधिनी.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः ।


श्रुतेर्मतमितिसिद्धान्तात् क्षरधर्मतयाऽक्षरत्वेनादोषात् । विवृत्ती परमावधिरिति आनन्द मीमांसोक्तोत्कर्षस्य परमावधिरित्यर्थः। तदेव विवृण्वन्ति । पडित्यादि महत्वज्ञापनपरिकरामिदं ज्ञेयम् ॥ ४॥

 भगवानित्यत्र दयास्थापितेति। प्रपन्नोर्पतया भृशमिति तृतीयस्कन्धे स्पष्टमिदं प्रतीकारो न भविष्यतीति । परमानन्दप्राकट्याभावे सर्वदुःखनिवृत्तेरभावादित्यर्थः । येत्यादि । द्वितीयस्कन्धनवमाध्यायसुबोधिन्यां स्पष्टमिदं केवलमिच्छये वेत्यादि । सवै नैव रेमे इत्यादिश्रुतिषु सतपोऽतप्यतेत्यादिसाधनान्तरनिर्देशदर्शनाद्भगवान् समर्थापि स्वीयेच्छायां दृष्टद्वारमन्यत्सम्पादयतीतिनिश्चितं तथात्र योगमायासमादेश इतिनानेन कापि हानिरित्यर्थः॥५॥

  गच्छदेवीत्यत्र नवभिरिति । अत्र प्रथमश्लोकः षट्पदीरूपो ज्ञेयः। रोहिणीत्यत्र ।किमितितिष्टतीति ।रोहिणीति शेषः । आकाङ्क्षार्थमिति अर्थोनिवृत्तिः मशकार्धो धूम इति वत् । आकाङ्क्षाया अर्थों यस्मात्ताशमित्यर्थः ॥६॥७॥

 अथेत्यत्र अयमित्यादिसन्दर्भस्यायमर्थः । कंसभयाभावमात्रं नावतारप्रयोजनमपि तु सेवाकारणं साचानेकविधेतिअसम्बन्धिनीच न सर्वफलदेति स्वावतारणावश्यकत्वमिति । विभागे नेति चतर्विधः कार्याचरणकृतो यः स्वरूपव्यूहविभागस्तेनेत्यर्थः । एकवचनमित्यादि । युवां वै ब्रह्मणादिष्टावित्यादि भगवद्वाक्यैः पृष्णिसु तपोभ्यां प्रजासर्गसम्पादकपुत्रार्थवरप्रार्थनावगमात्तदर्थं तत्कर्त्तुः प्रद्युम्नस्यैवौचित्यात्तथेत्यर्थः । भूम्यादेवैश्चभूभारहरणार्थमर्थितत्वात्तदर्थं यदा यदाहीति गीतावाक्याद्धर्मरक्षार्थं नावतारआवश्यको मोक्षार्थं ज्ञानोपदेशार्थञ्चेति सङ्कर्षणानिरुद्धवासुदेवानामप्यवतरणं न तु तेषां पुत्रता तथा स्वस्यापि ऐक्यभ्रमादेव लोकानां परं तथा प्रतीतिर्भवित्रीति भगवदिच्छा तथाच यथा परशुरामे उभयोाह्मणत्वक्षत्रियत्वयोनिर्विशेषेऽपि ब्राह्मणत्वेनैव पुत्रत्वं भार्गवत्वात् । क्षत्रियत्वस्य तु युद्ध एव प्रादुर्भावः प्रहारः क्षत्रधर्मस्येत्युद्योगपर्वीयभीष्मवाक्यात् । तामुद्धाटयन्ति । पुत्रतामित्यादि ॥ ८॥९॥ १० ॥ ११॥

 रामेतीत्यत्र । असंमत्यर्थ इति । स्वरमणस्थानत्वेनैव रामत्वं भगवत्सम्मतं नतु लोकरमणादिति तथेत्यर्थः ॥ १२॥ १३ ॥१४॥

 आविवेशत्यत्र । केचित्वित्यादिना यन्मतान्तरमुक्त तदेव कुतो