नुसारेणैवमुक्तम् । यत्र लग्नं भवतीति इदं मूलस्थाया आपेतिक्रियायाः
व्याख्यानं बोध्यम् ॥ ४२ ॥ ४३॥ ४४ ॥ ४५ ॥ ४६॥ ॥४७॥ ४८ ॥
प्रत्यर्प्येत्यत्र इदानीं पुत्राणामभावादित्ययं हेतुरर्पणासंभवेपि ज्ञेयः । तदा
पुत्रसंरक्षार्थं मृत्युरेव । म्रियेतेति ।
अत्र तदा पदं म्रियतेत्यनेन सम्बध्यते तदुपपादयन्ति । प्राणिमात्र
इत्यादि । एकमृत्युपक्षे मृत्युमृत्युमुपपादयन्ति । एक इत्यादि ।
इदानीमिति । स्वसहकारिणि कालोपाधौ । अस्मिन् पदे भाक्तं
मृत्योर्मरणमित्याशयेनाहुः । अतः शब्दनित्यत्ववदिति । शास्त्रतः सिद्धमपि
शब्दनित्यत्वं यथाभिव्यञ्जकस्य वायोर्नाशाछब्दाश्रवणे गतमिव भाति एवं मृत्युरपि
न यतोऽभिव्यञ्जकस्य सहकारिणः कालोपाधेरभावाच्चगछेदेवेत्यर्थः। तत्राहेति।
मृत्योरमरणपक्षे तस्मै प्रत्यर्पणमाहेत्यर्थः । श्रीधरव्याख्यानं दूषयन्ति । कंस
इत्यादि । दूषणे विशेषप्रयोजनाभावादनुमन्यन्ते अस्तु वा तथेति । ननु तर्हि
कंसस्यामरणे तस्मै बालकार्पणं नोचितमित्यत आहुः । सोपीत्यादि । अपि
शब्दाद्वालकः तथापीति । कंसस्यामरणेऽपि ॥४९॥ विपर्ययोवत्यत्र ।
अतिक्रमितुमिति शक्येति शेषः । एतन्मारणेन निवृत्ते इति ।
एतत्प्रत्यपणोक्तिरूपप्रतीकारात्मकेन मृत्योर्मारणेन कंसान्निवृत्तः
स्थानान्तरे गत इत्यर्थः । केचिदिति । श्रीधरस्वामिनः एतस्य
विचारस्थ कंसमारणतात्पर्यकत्वे श्रीवसुदेवस्यापि दुराशयत्वं
शङ्कयेतेत्यरुच्यापक्षान्तरमाहुः । एतस्यापीत्यादि ॥५०॥५१॥५२॥५३॥
न चास्यास्त इत्यत्र सम्यगुत्थितमिति । अत्र सम्यगिति कंसाशयं
कथनमात्रं ननु मूलस्थपदस्यार्थः ॥ ५४॥ ५५ ॥ अथेत्यत्र ।
आसक्तिर्जातेति । प्रथम चकारार्थः । नवमीति द्वितीयचकारार्थस्ततूज्ञापकः॥
सुभद्राज्ञापक इति प्रतिभाति ॥५६॥ ५७ ॥ ५८ ॥ ५९॥
प्रतियात्वित्यत्र अन्यनिष्टेति । भगवद्यतिरिक्ते सत्यनिष्टा जातं जातमित्यन्न ॥ ननु लक्षणप्रतिपदोक्तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणं नलाक्षणिकस्येति वैयाकरणाभियुक्तोक्तनियमात् । कथं नास्य कालभेदज्ञापकत्वमिति शङ्कायां तन्निर्वतकं तर्कमाहुः । अन्यथेत्यादि । तथाच यत्र लक्षणस्य सावकाशता तत्रैव प्रतिपदोक्तस्य ग्रहणम् । यावद्वचनं हि वाचनिकमिति न्यायात् । यत्र तु लक्षणस्य निरवकाशता तत्र न तत्प्रवृत्तिः । यथा पतिताग्निहोत्रप्रतिपत्तिस्मृत्या