पृष्ठम्:श्रीसुबोधिनी.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
दशमस्कन्धसुबोधिनोटिप्पण्योः प्रकाशः।


कट्यं । बजे चैतद्वैपरित्येन पुरुषोत्तमस्य तथात्रापि द्विरूपेण प्राकट्येऽपि वस्तुतः स्वरूपेकमित्यर्थः । देवक्यामिति कारिकार्थस्तु देवक्यां शयनस्य शेषस्यैव सम्भवो न हरेः शयानस्य तत्र प्रमाणमाहुः । स्मृत इतिादेवक्या जठरे गर्भं शेषाख्यं धाम मामकामित्याज्ञास्मरणात रोहिण्यामपरस्य हर्यंशस्य इति अस्माद्धेतोः कर्षणात् मायाकृतात् शेषांशस्य कर्षणात् रोहिणीगर्भस्थस्य वासुदेवांशस्य हीनता मायाधीनता नेत्येवं बोध्यः एवं चात्र द्वयोः पृथग्गर्भबोधनात् श्रीरोहिणीगर्भस्याकस्मिकत्वशङ्काप्रयुक्ता हीनता विपरीता । अतो गर्भसम्भवोत्तरमेव रोहिण्याः श्रीगोकुले स्थापनं अन्यासामन्यत्रेति बोध्यं व्याख्याने । स्थितमिति अविनाभावेन स्थितम् । स्वर्ग्गैपीति | सङ्कर्षणस्य यत्स्वस्थानं तस्मिन्नपीत्यर्थः दैत्यानां सुखार्थे इति । तेषां कालं प्राप्यैव भगवत्प्राप्तेस्तथातदिदं मन्येऽसुरान् भागवतानित्यत्र तृतीयस्कन्धे उपपादितं ॥२४॥

 विष्णोर्मायेत्यत्र तदंशभूतेति तदंशेऽपि उद्घाटने नराशिभूतो र्योशस्तदात्मिका इदं च अंशेनेति पदस्य विवरणं ॥ २५ ॥ २६॥२७॥

 राजधानीत्यत्र ।। तत इति पूर्वविधिबोधकपदं कालत उत्कर्षबोधकं समर्पकम् । बहुकालमारभ्य राजधानीत्वाद् बोध्यम् । ननु श्रीरङ्गादिषु देशान्तरेष्वपि भगवत्लान्निध्यस्योक्तत्वादत्र को विशेष इत्यत आहुः । देशकालादीत्यादि । तथाचाङ्गभूतात्प्रसानभूतोऽधिक इति तेनैव चेन्न सुखं तदा अङ्गभूतात्कुतः सुखं भवतीति ज्ञापनायेदमुक्तम् तेन तापनीयोक्ताभ्यो द्वादशमूर्तिभ्यो न सुखमिति ज्ञापितम् ॥२८॥.

 तस्यां त्वित्यत्र । पूर्वोक्ते वेति । यस्मिन् भगवान् स्वावतारार्थं सर्वानंशानाचकर्ष तस्मिन्वेत्यर्थः॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥३३॥३४॥३५॥३६॥ ३७॥ ३८ ॥ ३९॥ ब्रजन्नित्यत्र । कर्मगतय इति । तदेव तत्सहकर्मणैतल्लिङ्गं मनो यत्र निषक्तमस्यति श्रुतेः कर्मगतय एव बुद्धिप्रयत्नस्थानीया इत्यर्थः ॥४०॥ स्वप्ने यथेत्यत्र। श्रुतिसूत्रविरोधपरिहारायाहुः। तदुदित इत्यादि । तथाच लोकबुद्धिमनुसृत्येदमुच्यतेऽतो न विरोध इत्यर्थः ॥ ४१ ॥ यतो यत इत्यत्र ॥ कालकर्मभगवदिछानामन्यतर इति । अत्र बहूनां मध्ये एकस्यातिशये विवक्षिते तमश्प्रत्ययोऽपेक्षितस्तथापि महाभाष्ये एतेषु कतरो देवतः कतरो यज्ञदत्तः इति तमुपाधिमनाद्रत्यैव तरश्योगादत्र तद-