क्यतात्पर्यनिश्चायकत्वादुक्तदोषाभावाञ्च निःसाधनाएवोद्धारविषयाइत्यर्थः ।
द्वयं वेत्यादि ग्रन्थमवतारयन्ति ननु भगवदित्यादि । द्वयं वेत्यत्र वाशब्दः
पक्षान्तरे द्वयं भिन्नविधं भक्तसङ्घद्वयं न विरुद्ध्यते ।
न विरुद्ध्यते कर्मकर्तरि प्रयोगः फलैक्याद्विरोधं न प्राप्नोतीत्याशयेन
व्याकुर्वन्ति । उभयोरित्यादि । तथाचात्र स्कन्धे
ससाधनानामप्युद्धारदर्शनात्पूर्वोक्तदोषाभावाच्च ससाधनापिसंग्राह्या इत्यर्थः।
तर्हि पूर्वमेव तथा कुतोनोक्तमित्याकाङ्क्षायामग्रिममवतार्य व्याकुर्वन्ति ।
एवं प्रकारेणेत्यादि । निःसाधनोद्धारजनकप्रकारेण लीलाकरणे तस्य
शुकव्यासाभ्यां च कथने हेतुमाहुरित्यर्थः । साङ्गस्येत्यादि । अङ्गं भूमौ
प्रादुर्भावस्तत्सहितोऽत्रनिरोधो भगवदेकतानत्वं तस्य प्रक्रियाप्रकर्षेण कृतिः ।
उभयाकाङ्क्षायुतं वाक्यकदम्बकञ्चसायुक्ता अनुकम्पाप्रयुक्तत्वादुचिता ।
यदि हि ससाधनानेव मुख्यतयोद्धरेत् शुकव्यासौ च तदुद्धारं मुख्यतया
कथयेतां
तदसाधनरूपस्योपाधेर्विद्यमानत्वान्निरूपधिपरदुःखप्रहारणव्यंग्योनुग्रहोऽनुकम्पात्मा
भगवति नसिद्धेदतो निःसाधनानामेवमुख्यता युक्तेत्यर्थः। टिप्पण्यां अत्रेति औचित्ये
ननूद्धारविषयनिर्धारस्तु गमिष्यतीत्यन्तकारिकाभ्यामेव जातइति ।
संसारेत्यादिकमनतिप्रयोजनमित्यरुच्या संसारेत्यस्य व्याख्यानान्तरमाहुः । यद्वेत्यादि ।
पूर्वोक्तमिति भगवत्प्राप्तिलक्षणं तथाच "ददर्श चक्रायुधमग्रतो यतस्तदेव रूपं
दूरवापमाप" इत्यादिवाक्यादसुराअप्युद्धारविषयत्वेन संगृह्यन्त इतीदं प्रयोजनमित्यर्थः।
एवं चात्र सन्दर्भे स्वशान्तरूपेष्वित्यत्र भगवद्भक्तेषु याऽनुकम्पा उक्ता सा तत्
दुःखदासुरमुक्तिपर्यन्ता तु भक्तमात्रपर्यवसन्नेति । तत्सर्वकार्यार्थं भगवदवतार इति
पूर्वं राज्ञा न ज्ञातं अतः तत्सर्वज्ञानार्थं कथारम्भ इति सिध्यति । ननु तथापि दुःखान्त
एव ग्रन्थो वक्तव्यः सान्त्वनस्य किं प्रयोजनमतआहुः । सुबोधिन्यां धैर्यार्थमित्यादि ।
दुःखसहनार्थं भूमिमात्रोः सान्त्वनमाश्वासनं प्रोक्तं अन्यथा सान्त्वनाभावे दुःखस्य
महत्वात् स्थितिरेव न स्यात् । तथा सत्यवतारोपि नस्यादेवाऽतस्तथेत्यर्थः । ननु यद्येवं
तर्हि पश्चान्नारदोक्त्या दुःखं किमित्युक्तमतआहुः । अन्त इत्यादि । ननु तर्ह्याकाशवाण्याः
किं प्रयोजनमतआहुः । वे इत्यादि । हरेः सकाशात् या आकाशवाणी सा वैप्रादुर्भावनिश्चयाय
यर्ह्याकाशवाणी न स्यात् प्रादुर्भावनिश्चयो नस्यादतस्तथेत्यर्थः ।
पृष्ठम्:श्रीसुबोधिनी.pdf/२३४
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
जन्मप्रकरणम् । १ । अध्यायः । १ ।