पृष्ठम्:श्रीसुबोधिनी.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
दशमस्कन्धसुबोधिनीटिप्पण्यो प्रकाशः।


ननु तस्याः किम्प्रयोजनं यदेवं निश्चायितवतीत्यत आहुः । वाग्देव इत्यादि । वाग्देवः सर्वमुक्त्यर्थं उद्रतः सन् तथा चक्रे कलहोद्यमेन प्रादुर्भावनिश्चायनं कृतवान् । ननु कथमेतदवगम्यते इत्यत आहु:। तथेत्यादि । हि यतो हेतोः नारदस्तथैव द्वितीयस्कन्धे पायुर्यमस्येत्यत्र सुबोधिन्यां नारदस्य कलहमुत्पाद्य तद्वारा तन्निवर्तकत्वं व्याख्यातं । अत्रापि कलहोत्पादकत्वेन अन्ते उक्तः अतः उपसंहारादवगम्यते इत्यर्थः । श्लोकान् विभजन्ते दशभिरित्त्यादि । तथेति श्रीदेवकीसान्त्वनं आकाशवाण्या मातृदुःखमेव न सर्वेषां अतस्तदर्थं नारदाक्तिः तथाच शीघ्रमवताराय नारदोक्तिरित्यर्थः । अग्रे स्फुटं क्रियेति । यदुषूपजन्यतामित्यनेनोक्ता सेवार्थाजननक्रियेत्यर्थः। भूमिरित्यत्र यावदासीन इत्यादि असुराणां वा इयमग्रआसीद्यावदासीनः परा पश्यति तावद्देवानामिति श्रुतौ भूयाच नोत्तरं कियहोदास्यामीति प्रश्ने ततः सलावृकीत्रिः परिक्रमति ततो याचित्वाऽशालावृकीरूपेणेन्द्रेण सर्वस्याः परिक्रमणे भूमेः प्राप्त्यावैदित्वमुक्तामिति । तदिदानीमिष्टमिति ज्ञापनाय तावद्रूपेण हविर्धान्यात्मकेन गमनमित्यर्थः ॥ १७॥ १८ ॥ १९ ॥ २० ॥ २१॥ यावदित्यत्र आन्तमिति अत्यन्तसंयोगे द्वितीया तथाचावतारसमाप्तिमभिव्याप्तेत्यर्थः ॥२२॥

वसुदेव गृह इत्यत्र ननु पुरुषः पर इत्यत्राक्षरपुरुषएव व्याख्यायतां नतु पुरुषोत्तमः मूलेऽक्षरव्यावर्त्तकपदाभावाद्ब्रह्माण्डात्परत्वेन पुरुषत्वेनाक्षरस्य गीतायां निरूपणाच्चेत्यतआहः। ब्रह्माण्डादित्यादि अयमर्थः गीतायां यद्यपि "परस्तस्मात्तुभावोन्यो व्यक्तोऽव्यक्तात्सनातन" इत्यत्र परस्योक्तं परम्भावत्वेन रूपेण ननु पुरुषत्वेन रूपेण | वाक्यान्तरे च "द्वाविमौ पुरुषौ लोक" इत्यनेन लोकस्थत्वं पुरुषत्वेन रूपेणोक्तं ननु परत्वं प्रकृतेष्वशांवतारव्युदासार्थं भगवत्पदे साक्षात्पदेन विशेषिते ब्रह्माण्डात्परस्य नारायणे तुरीयाख्ये भगवच्छब्दशब्दित इतिश्लोकोक्तस्य कथनात्तस्य तुरयित्वेनाक्षरात्मकः प्रकृतिप्रवर्तको पुरुषोर्थादेव समागतो ननु व्यक्तात्परोऽव्यक्त इति पुरुषः पर इत्यनेन अक्षरात्परः पुरुषोत्तम एव प्राप्यतेऽतः सएवात्राभिप्रेत इत्यर्थः। ननु लक्ष्मीपतेः सुरस्त्रीभिः किम्वा प्रियत्सेस्यतीत्यत आहुः । सुरस्त्रिय इत्यादि नन्वयर्थो मूले कस्मात् शब्दात् लभ्यते इत्यत आहुः। तत्प्रियेत्यादि । तथाच सेवार्थोयं आसामवतारःसः तत्प्रियार्थं तस्या