पृष्ठम्:श्रीसुबोधिनी.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः


लद्वारकावासबहुपरिग्रहाणां प्रश्नस्थानां संग्रहः । अत्राद्यस्य वीर्येण द्वितीयस्यैश्वर्येण तृतीयस्य यशसा तुरीयस्य श्रिया पञ्चमस्थ ज्ञानेन षष्ठस्य वैराग्येण निरोधः स्फुट एव । तथाचातोद्वादशभिः प्रश्नोन तु पुरस्फुर्तिकैर्वीर्यादिभिः। प्रश्नस्य स्कन्धद्वितयविषयकत्वादिति भावो बोध्यः राज्ञामित्यत्र षष्ठोजननसम्बन्धप्रतिपादकति ।राज्ञामिति या षष्ठी सा चरित्रेषु जननसम्बन्धप्रतिपादिका । तथाच तत्कृतं चरित्रं नतु तत्सम्बन्धात्प्रतिपादिकान्यकृतमित्यथः॥१॥

 यदोश्चेत्यत्र तत्कृत इति वंशकृत इत्यर्थः ॥ २॥३॥

 निवृत्ततर्षैरित्यत्र कारिकासु । गुणानुवादविशेषणानां तात्पर्यं}} घक्तुं पूर्वं गुणरूपस्य चरित्रस्योत्कर्षमाहुः। स्वरूपादित्यादि।महापुरुषयोगत इति । महापुरुषो भगवान् तत्सम्बन्धात् विषयोत्तमत इति। विशेषेणविषिणोतीति विषयः। विषयश्च तत् उत्तमञ्च विषयोत्तमं विषयेभ्यो वा उत्तम इदं यस्य तथा "परिनिष्टितोऽपि नैगुण्य" इत्यत्र द्वितीयस्कन्धे सिद्धम | विषयोत्तमत इति भावप्रधानः। परममिति । परः पुरुषोत्तमो मीयते ज्ञायते येनेति तादृशम् । अत्र मां मार्गंयत्येद्त्येकादशस्कन्धे सप्तमाध्याय भगवद्वाक्यात् । एवं चरित्रोत्कर्षमुक्त्वा तदनुवादोत्कर्षमाहुः । मुक्तस्येत्यादि । एतच्चरित्रकथनं जीवन्मुक्तस्य कार्यम् तदहन्तभिधास्यामीति द्वितीयस्कन्धे शुकवाक्यात् स्वभावतस्तस्येयमेव कृतिरित्यर्थः। तथा च ब्रह्मानन्दादप्यधिकतररसरूपत्वात्स्वरूपोत्कर्षः भवनाशकत्वात्फलतः। नन्वस्यैवमुत्कर्षको हेतुरत आहुः । अनिन्द्यविषयश्चेति । च पुनः अनिन्धश्चासौ विषयश्चा अन्ये हि रूपादय संसारे बध्नन्ति इदं तु भगवति बध्नतीति तथेत्यर्थः । ननु चरित्रगानाधिकारी मुक्तानामेवेति चेदन्येषां श्रवणादिकं न स्यात् । तेषां दुर्मिलत्वादित्यत आहुः । मुमुक्षोरित्यादि । तत्र प्रकारमाहुः । विरक्त इत्यादि । संसाराद्विरक्तः अस्मिन् गुणगाने ध्रुवं यत्नं कुर्यात् । तथाचात्र राजशुकयोः श्रवणे कथने च प्रवृत्तिबोधयता शास्त्रकारेण तस्मिन्पद्ये प्रकारो बोध्यत इति भावः । पतेदिति । पाठेतु अस्मिन् गुणानुवादे रतिरहितः अयं जीवः स्थानाद् भ्रष्टोऽधः पतदित्यर्थः। अस्मिन् पक्ष उत्तरार्द्धस्य इदं तात्पर्यम् । ननु- गुणानुवादे विरक्तिरेव कथमित्याकाङ्क्षायां पशुघ्नपदतात्पर्यमाहुः। आत्मघातीत्यादि । अत्र केचिदकारप्रश्लेषं कृत्वा अपगता शुक् य-