पृष्ठम्:श्रीसुबोधिनी.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्अध्यायः


 ननु भक्त प्रपञ्चलयो नात्र स्फुट इत्याशङ्कायां तल्लयस्वरूपमाहुः । यावदित्यादित्रिभिः। किञ्च नन्वप्रकट एव भगवान् स्वभक्तान् कुतो न निरुद्धवानित्याशंकायामपीदमुच्यते । तत्र हेतुर्वस्तुस्वभाव एवेति । किञ्च द्वितीयाध्याये स्वमुद्यमरूपाङ्गरूपणादव्याप्तिरपिनिवारिता ज्ञेया तृतीयाध्यायेऽव्याप्तिं निवारयन्ति ॥ १६ ॥ १७ ॥

 रूपान्तरमित्यादि । एतेनैव कापट्यस्याप्यङ्गता व्याख्यातप्राया। समानन्यायादेव बोध्या । एवञ्चात्रेदं सिद्ध्यति । प्रपञ्चे क्रीडनं दशमार्थस्तत्फलञ्चभक्तप्रपञ्चलयः स च यावदित्यादि कारिकोक्तलक्षणको न तु लोकप्रसिद्धः ॥ प्रलयात्मकस्तेनैवास्य प्रलयलीलात्वं ब्रह्मलक्षणत्वञ्च सोऽयं सम्पूर्णे स्कन्धेऽनुस्यूत: । प्रपश्च-विस्मृतिः कुष्णात्कृष्णासक्तिश्च वर्ण्यत इत्यनेनोक्तानुकीडनव्यापारभूता सापि भरतसूत्रे निरोधपदेनोच्यते । यातवासनसम्प्राप्तिर्न्निरोधः स तु कथ्यत इति । एवं सति करणव्यापारफलानां निरोधता। पदार्थान्तरनिरूपणविशेषस्तु प्रसङ्गादिसङ्गतिविशेषप्राप्त इति नकोऽपि चोद्यावसर इति ॥१८॥

 तदेतदृदि कृत्याहुः । इति निश्चिय इतिस्कन्धार्थं निश्चित्य प्रकरणानि विभजन्ते । पञ्चेत्यादि ॥ १९ ॥२०॥

 नान्य इति । अन्तर्याम्यधिदेवरूपांशेनेत्यर्थो निबन्धानुसारेण ज्ञेयः॥ २१ ॥ चतुभूर्तिंप्राकट्यस्य किं प्रयोजनमत आहुः। तत्तदित्यादि । प्रथम इति । आद्यप्रकरणार्थ इत्यर्थः । टिप्पण्यां निबन्धे प्रथमे वासुदेवस्ततः संकर्षणः ततः प्रद्युम्नस्ततोऽनिरुद्ध इत्येवं सोपपत्तिकमुक्तमतस्तथेत्यर्थः ॥ २३॥

 न केवलं गुणा एव तथा किंत्वन्येऽपि तदनुरोधिन इत्याशयेन दृष्टान् पीडकानाहुः । कंसादेरित्यादीति । अज्ञानादिति । कंसमोर्ख्याादित्यर्थः ॥ २४ ॥ २५॥

 त्रयमिति । दुःखत्रयमित्यर्थः । इर्यत इति । प्रथमाध्याय उच्यत इत्यर्थः। एतेन त्रयाणां भगवान्नाश्यत्वरूपहेतुतावछेदकमेकमिति हेत्वननुगमोऽपि परिहृतः ॥ २६ ॥ २७ ॥२८॥

 द्वादशभिरिति प्रीणनवाक्यस्य प्रश्नरूपत्वाभावात्तथेत्यर्थः । गुणदोषग इत्यत्र टिप्पण्याम् । दोषत्वेनेति । ऐश्वर्यादिगुण विरुद्धदोषत्वेन आदयइति आदिपदेन असंज्ञातिसहभावबहुका.