पृष्ठम्:श्रीसुबोधिनी.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमस्कन्धसुबोदिनीटिप्पण्योः प्रकाशः


टिप्पण्यां एवं सतीति मारणलक्षणस्यार्थस्य स्कन्धद्वये व्यापकत्वेनातिरिक्तत्वे सतीत्यर्थः । तस्या इति । नैमित्तिकत्वेनागन्तुक्या इत्यर्थः ॥११॥ सुबोधिन्यां भूमिभारावताराय यदर्थ जन्ममापते इति बोपदेवमतं दूषयन्ति । तदर्थमित्यादि । पृथास्तोत्रेति । तथाहि “तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगवितानार्थं कथं पश्येमाहि स्त्रिय" इत्युक्तं तद्विरोधीत्यर्थः ॥१२॥ दूषणान्तरमाहुः ।। कार्येत्यादि ॥ अर्थोऽस्य टिप्पण्यां स्फुटः । टिप्पण्यां । तथासतीति । नवभ्य आधिक्ये सतीत्यर्थः । त्यागश्चेति चकारः प्रस्तुतपक्षेऽपि तदूषणज्ञापनार्थः । दशमस्येति वाक्ये हि नवानामेवलक्षणत्वमभिप्रेतं न तु दशानामिति हृदयं सुबोधिन्याम् । ननु मारणलक्षणनिरोधश्चेन्नदशमार्थस्तदा भूमिदृप्तनृपेत्याद्युक्तकथायाः कथं सङ्गतिरित्यत आहुः। भक्तत्वादित्यादि । उद्धार इति दुखोद्धारः तथाच तत्रापि भक्तस्यैव निरोध इति सुकरैव सङ्गतिरित्यर्थः॥१३॥

 ननु भूमारभूता हि राजानस्तेचेत् जन्मप्रकरणे मारिता इति कथं दुखोद्धारो जन्मप्रकरण इत्यंत आहुः । प्रकट इत्यादि । भूमेर्हि पापबाहुल्येन भारो न तु नरबाहुल्येन अन्यदापि तेषां पर्वतादीनाञ्च सत्त्वात् । प्रकटे च प्रभौ सुर्ये तम इव पापं नष्टमतस्तथेत्यर्थः । दिष्ट्या हरेस्या इति द्वितीयाध्यायपद्ये स्पष्टमिदं प्रथमाध्यायऽव्याप्ति माशंक्य तत्परिहारायाहुः ॥ इतीत्यादि ॥ समुद्यम ॥ इति । सफलउद्यम इत्यर्थः । तथाचोद्यमसाफल्यकथनात्तत्रापि क्लेशहानिरुक्तैवेति न दोष इति भावः ॥१४॥

 ननु भक्तनिरोध एव चेद्भगवतः कर्तव्यस्तदा ब्रह्मादयोऽपि भक्ताः सात्विकाश्चेति त एव कुतो न निरुद्धास्तत्राहुः । ब्रह्मेत्यादि । एतदर्थष्टिप्पणीतो ज्ञेयः । ननु “ तदात्मानं सृजाम्यहम्" इति वाक्यस्वारस्यान्नैमितिकोऽपि निरोधः प्रलयात्माभगवत्कर्तृक एवेति लक्षणवाक्यार्थविमर्शे निरोधस्य प्रलयलीलात्वेन व्यवस्थापनाञ्च नैमित्तकस्य कुतो न स्कन्धार्थरूपतेत्याशङ्कायां- पूर्वस्कन्धार्थस्वारस्यमादाय स्वोक्तार्थं दृढीकुर्वेत आहुः। भतानामित्यादि नवमे हीशानुकथायां भक्तनिष्टस्यैव संसारस्य लय उक्तो तेनापि तेषामेव प्रपञ्चस्य लयो वाच्योऽतो न नैमितकस्य स्कन्धार्थतेत्यर्थः ॥१५॥