पृष्ठम्:श्रीसुबोधिनी.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्अध्यायः


 सुबोधिन्या स्वोक्तो दशमार्थः सर्ववादिसम्मतो नेति वादिनिरासाय विचारं प्रतिजानते। दशमार्थ इत्यादि । इदं निबन्धे स्पष्ठम् । ननु कथमसंशय इत्यत आहुः । नवेत्यादि । यः कृष्णो नवलक्षणालक्ष्य उक्त आभासश्च निरोधश्चेत्यादिना तस्यात्र निरूपणात् ॥३॥

 क्रमभावित्वादिति । अत्र सोविसर्गश्चेत्यत्रोक्तः क्रमः यद्यपि स्वबुद्धिनिर्णीतार्थापेक्षया महापुरुषोक्तक्रमस्य प्रबलत्वान्निरोध एव दशमार्थत्वेनायाति तथापि प्रलयात्मकस्य तस्य परिदृश्यमा- नत्वाभावात्संदेह इति भावः । पूर्वपक्षी अत्र चोदयति । लोलेत्यादि । दौर्बल्यं साधयति ॥४॥

 यथेत्यादि । अथवा महापुरुषोक्तत्वात क्रमएवादरणीय इत्यत आहुः । यथेत्यादि । अर्थानिर्द्धारे किं विश्वासमात्रेण फलं भवत्यपि तु नेति [१]काकुः परिहासार्थः । दूषणान्तरमाह । निरोध इत्यादि फलितमाहुः महत्त्वादित्यादिना सप्रात्ते ॥६॥ नहीत्यादि । नन्वयं न नियम इत्यत आहुः ।।७।। अग्र इत्यादि तस्याःफलार्थं श्रवणमस्त्विति चेत्तत्राहुः॥ पूर्वेत्यादि ॥ ननु कार्यकारणभावो नादर्तव्य इति ग्रहिलवादेति प्रसङ्गं दूषणान्तरमाहुः॥८॥ कृष्ण इत्यादि । स्वोक्तसमर्थनायाहुः । क्रम इत्यादि । ननु भवत्वेवं तथापि लक्षणसमन्वयः कथं कार्य इत्याकाङ्क्षायां लक्षणं विवृण्वन्ति । निरोधइत्यादि । तथा च लक्ष्यनिरूपके स्कन्धे क्रीडनस्य दर्शनार्थमेव लक्षणार्थो नान्य इति न दोष इत्यर्थः । एवं च द्वितीयसुबोधिन्यां यदुक्तमनुशयनं नामशक्तीः शाययित्वा तद्भोगार्थं पश्चात्स्वस्य शयनं तञ्च जाग्रदादिभेदेन त्रिविधं शक्तयश्च द्वासप्ततिनाडीरूपा देहस्य तावत्यः । आत्म[२] नश्र्यादयो द्वादश तेन सप्ताशीत्यध्याया इति । तदप्येतेन स्मा- रितं ज्ञेयम् । प्रपञ्चस्य देहत्वात्तेन दैहिकानां दुर्विभाव्यपदार्थादीनां च संग्रहात तेनाभेदः फलिष्यति ॥९॥१०॥

 ननु किमित्येवं व्याख्यायते भगवता दुष्टराजानोप मारिता इति तमादाय प्रलय एवार्थः कुतो न ग्राह्य इत्याकाङ्क्षायां दूषणान्याहुः । आद्यन्तयोरित्यादि । एषामर्थष्टिप्पणीतो ज्ञेयः ।


 १ भित्रकण्ठननिधीर : काकुरित्यभिधीयते ।
 २ श्रिया पुष्टया गिस कान्त्या कीर्त्या तुष्ठयेलयर्जिया । विधयाऽविद्यया शक्त्या मायया च
निशेषितमिति दश मोक्ता द्वादश ।