विवक्षितरूपतया प्राप्सिनस्यादतस्तथेत्यर्थः। प्रथमस्य तदाहुः ।
यथापुरीत्यादि तथासतीति । निद्रार्थकत्वे सति तथा च
द्वितीयविशेषणस्थशङ्कानिरासः । शयनशब्दार्थनिश्चयश्चेति
प्रयोजनद्वयमित्यर्थः । एवञ्चात्र जाग्रच्छयनमेव विशेषतो
निरूप्यत इति ज्ञापितं । तत्तल्लीलानुरूपपदेनेतरे
स्वप्नसुषुप्तिरूपेऽपि सूचिते ज्ञेयेऽतो न
द्वितीयस्कन्धसुबोधिनीविरोधः। ननु स्कन्धार्थरूपत्वेन भगवति
निरूपणीये व्यतिरेकमुखेन निरूपणस्य कोवाशय
त्याकाङ्क्षायामाहुः । नारायणइत्यादिस्थायिभावात्मके स्वस्मिन्निति
यद्यज्जनकं तत्तद्गुणकं यद्यद्गुणकं तत्तद्विनाभूतं यद्यदविनाभूतं
तत्तदात्मकमिति व्याप्तेः समन्वयाधिकरणे
सूचितत्वात्तादृशभावोत्पादकत्वेन रत्यात्मकस्थायिभावात्मके पुरुषोत्तमे
तथा च लीलाविवरणात्मककार्येण तादृशभगवस्थितिः
श्रीमदाचार्यहृदयेऽनुमेयेति स्वीयानां बोधनार्थं तथा भावनीयमिति
स्वीयशिक्षणार्थं च व्यतिरेकमुखेन कथनं चमत्काराधानार्थमित्यर्थः ।
नन्वेवं सति कृष्णावतारस्य सर्वावतारश्रेष्टत्वेन तापनीये श्रवणात्
कृष्णावतारसाम्यमेवस्कन्धार्थात्मके रूपे निरूपणीयं किं
नारायणसाम्यनिरूपणेनेत्यत आहुः । येनेत्यादि । तथा च मूलानुरोधेन
तथा निरूपणमित्यर्थः। ननु यद्यपि मूले लक्षणवाक्ये
भावव्युस्पत्यानुशयनपदेन स्थितिक्रियाविशेषो वक्तुं शक्यः। तथापि
स्कन्धे तु नानाविधालीला एव स्फुटं प्रतीयन्ते इति सा व्युत्पत्तिः कथं
सङ्गच्छेदित्यत आहुः। मूलेऽनुशयनेत्यादि । तुरप्यर्थे । सनिरोध इति ।
ग्राह्य इति शेषः । मूले अनुशयनशब्दस्य भावार्थकत्वपक्षेऽपीत्यस्य
सनिरोध इत्यनेनान्वयः। अनुशय्यत इत्यादिनोक्तव्याकरणव्युत्पत्या
ताभिः शक्तिभिः सह निगूढभावकरणं येन क्रियाविशेषेण स निरोधः ।
तथाचात्र लिङ्गोपहितलैङ्गिकभानवत् करणोपहितैव क्रियोच्यते
क्रियोपहितं वा करणमिति व्युत्पत्ति द्वयेप्यदोषः तदेतन्निगमयति ।
स्वकीयेष्वित्यादि। सेति करणरूप फलरूपा च अतो न कोऽपि दोषः ।
इदमेव करणोपधानं द्वितीयसुबोधिन्यां शक्तीः शाययित्वा तद्भोगार्थं
शयनमिति, भोजनामति भोजनक्रियायाः अत्रत्यटिप्पण्यां
तत्तल्लीलानुरूपास्थितिरिति विशेषणेन च सूच्यते इति न कोऽपि शङ्का[१]लेशः॥१॥२॥
१ =दोषलेश इत्यपि पाठः।
- ↑ १