पृष्ठम्:श्रीसुबोधिनी.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्अध्यायः

स्येति हि लक्षणम्” इति कारिकायां स्फुटी करिष्यते। यथा पुरिशयनमित्यादिना विचारयिष्यते चास्मिन् पद्यविवरणे । एवं सति विलक्षणस्थितिक्रियाया एव स्कन्धार्थत्वं वक्तुमुचितम् । ननु तस्य भ[१]गवत्वम्।

 अथ श्रीभागवतस्य लीलाविशिष्टभगवद्वाचकत्वाददोष इति चेद्विभाव्यते बाढं तदापि महावाक्यस्यैव वाचकत्वमायाति । नत्ववान्तरवाक्यानाम् । यादच क्रियायां प्रविष्टो यश इव लीलायां प्रविष्टोऽनुशयनात्मार्थत्वेनाभ्यु[२]पेयते । तदापि शायिनमिति प्रयोगः कथं संगच्छत इति चेत् उच्यते । अत्र हि शयनं लीलाधिकरणकमुच्यते तेन लीलायां प्रविष्टो भगवान् स्कन्धार्थत्वेन प्रत्याप्यत इति प्रयोगः सूपपन्नः न च मूलविरोध इति वाच्यम् । स्कन्धार्थस्यानान्तरीकावरणरूपत्वेन लक्ष्यसहभावेनैव स्फुरणात्। न चेदमप्रयोजकम् । लोकेऽपि यत्र चेष्टादिभिर्नान्तरीयकैर्लक्ष्यबुद्धिस्तत्र लक्षणानां लक्ष्यव्याप्तानामेवनिश्चायकत्वदर्शनात् । अत एव तादृशं लक्षणमाहात्म्यं ज्ञापयितुं भगवतः स्वभावञ्च लीलायां तिष्ठन्लीलामन्तरो येमयतीति रूपं शापयितुमेवमाचार्यै निरूपितमिति न कोऽपि चोद्यावसरः । अयमेवार्थोस्येति पुरावर्तीत्यनेन द्वितीयसुबोधिन्यामुक्तः । स एव चार्थः प्रभुचरणैर्यथा पुरिशयनमित्यादिना ध्वनितः। पुरुषसूक्ते तादृशस्थितेः पुरुषे सिद्धत्वादितिदिक। अतः सुष्टूक्तं स्कन्धार्थरूपोऽपि भगवानिति अत एव स्कन्धान्तरारंभे नमनानुक्तिरत एव च मूलेऽत्र प्रथमतो जन्मप्रकरणमुक्कमन्यथा यत्र क्वचिन्नैव वदेत् । नवमस्कन्ध एव भगवत्प्राकट्यस्य राजानं प्रत्युक्तत्वेन प्रयोजनाभावात् । राजप्रश्नानुसारेणापि प्रथमतो वीर्याणामेव वक्तव्यत्वादिति । नमामीत्यस्य विवरणे तद्रूपं ते विवृण्वन्त इति अनुशयनरूपं भगवन्तं स्फुटी करिष्यन्तः । नमन्तीति शेषः । तदेतत् व्यक्ती कुर्वन्ति । यथेत्यादि । तत्त्वेनेति शेषत्वेन एवं व्याख्यायैतत्प्रयोजनमाहुः । एतेनेत्यादि। व्यतिरेकालंकारगर्भेणानेन वाक्येन तदेव व्युत्पादयन्तीति । तत्रैकेत्यादि । व्यतिरेकं स्फुटी कृत्य विशेषणानां तात्पर्यं वदन्तः प्रथमं द्वितीयमाहुः । अत्रेत्यादि । तेनेति पुनर्लीलापदकथनेन । तथा च प्रथमविशेषणस्थलीलापदेन नायिकाप्रासावपि


 १ नथाङ्गीकारे श्रीधर मतप्रवेशः स्यात् ।
 २स्वीक्रियते ।