पर्यवसानदोषदर्शनाभावात् । तैः सह सम्यङ्मन्त्रणं कृत्वा दुर्मतिर्जातः । बुद्ध्या हि सर्वनिर्णयः । बुद्धिनाशकस्तु दुःसङ्गः । तत्राऽपि मन्त्रित्वेन गृहीतः । अत एव ब्रह्महिंसां स्वस्य हितत्वेनमेने । ननु दुःसङ्गेऽपि कथं स्वाभाविको भावोऽन्यथा जात इति चेत्तत्राह ।। असुरः कालपाशेनावृतश्च । असुरत्वात् स्वभावदुष्टः । कालपाशावृत आपदस्तः । आपदि सर्वबुद्धिनाशो भवति । तत्राऽपि कालपाशपदाभ्यां महती आपदा निरूपिता ॥४४॥
एवं बुद्धिभ्रंशे जाते यत् कृतवांस्तदाह-
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ॥
कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४५ ॥
सन्दिश्योति ॥ साधुलोकस्य कदने पीडायां कदनप्रियान्-
स्वतोऽपि कदनेच्छून् कदनकरणार्थं तत्तत्साधकनानारूपधारकान्
दशदिश्वप्यादिश्य स्वविपये अन्यविषये च कामरूपधराणां सर्वत्रैव
सामर्थ्यसम्भवात् ॥ दानवानिति ।। क्रूरान् राक्षसमात्रे दानवप्रयोगः ॥
स्वगृहमाविशत् ॥ यथा उपद्रवे कश्चित् प्रभोः स्थाने गतो दर्शनमेव
न प्राप्नुयात् । एतदर्थे गृहे प्रवेशनम् ॥४५॥
</poem>
ते चै रजःप्रकृतयस्तमसारूढचेतसः ॥
सतां विद्वेषमाचेरुरारादागतमृत्यवः ॥ ४६॥
ते च ततोऽप्यधिकं कृतवन्तइत्याह ।। वैनिश्च येन ते स्वभावत
एव रजःप्रकृतयः। राजसाः क्रूरा भवन्ति । आगन्तुकेन च पुन-
स्तमसारूढ़ चित्तं येषाम् पूर्वसिद्धविवेकनाशार्थ तमः । रज-
स्तमोभ्यां व्याप्ताः सात्त्विकान् द्विषन्त्येव । अतः सतां विद्वेष
विशेषेण द्वेपो यस्मात् तादृशमुपद्रवं धर्मधनादिनाशनमासमन्ताञ्चेरुः
कृतवन्तः । अनेन तेषां स्वरूपतोऽन्तःकरणनाशाद् धर्मतश्च