पृष्ठम्:श्रीसुबोधिनी.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
जन्मप्रकरणम्अध्यायः

उपद्रवं कृतवन्त इत्युक्तं भवति । ननु स्वाम्याज्ञाता अधिकं किमर्थ कृतवन्तस्तत्राह ॥आरादागतमृत्यव इति ॥ मृत्युग्रस्तास्तथा कृतवन्तः ॥ विकलो ह्यन्यथा करोत्येव ।। ४६ ॥

 माययैवैतत् कारितं सर्वनाशार्थमिति ज्ञापयितुं महदतिक्रमस्य फलमाह-


 आयुः श्रियं यशो धर्मं लोकानाशिष एव च ॥
 हन्ति श्रेयांसि सर्वाणि पुंसो महेदतिक्रमः ॥ ४७॥


इति श्रीमद्भागवत महापुराणे दशमस्कन्धे चतुर्थोध्यायः ॥१० ॥४॥


 आयुः श्रियमिति ॥ जीवानां पद् उत्तमा गुणाः । तदभावे प्राणी अकृतार्थः स्यात् । तत्र प्रथममायुः । जीवतो हि सर्वM भवति । ततः श्रीः । स्पष्टः । तस्या उपकारः । ततो यशः कीर्तिः। ततोऽन्तरङ्गो धर्मः । तैः साध्या लोकाः स्वर्गादयः। तत्र लोके सर्वा एवाशिषः । चकारादैहिका अपि पुत्रादयः । एवकारेण सर्वेषामेवाशीष्वं प्रदर्शितम् । अतो यस्य यदभीष्टं तदेव नाशयतीत्युक्तं भवति । अन्यथा गणिताश्चेत्तस्याभीष्टा न भवेयुस्तदा इष्टमेव चेष्टितमिति महदतिक्रमः किं कुर्यात् । अतो यत्किञ्चिदेवाभीष्टं तदेव हन्ति । लोकासिद्धास्तु गणिताः । अनुक्तसर्वसंग्रहाऽर्थ सर्वाणीति ॥ पुंस इति स्वतन्त्रस्यापि महतो भगवदीयस्य अतिक्रमः उल्लङ्घनम् । महत्त्वं भगवत्सबन्धादेव । अन्यथा आराग्रमात्रस्य कथं महत्त्वं स्यात् । एवं भगवच्चरित्रसिद्ध्यर्थं मायाकार्य निरूपितम् ॥ ४७ ॥



इति श्री भागवतासुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां

दशमस्कन्धविवरणे च्तुर्थाध्यायविवरणम् ॥ १०॥ ४॥