इन्द्रियाणाम् । शमोऽन्तःकरणस्य । श्रद्धा सर्वत्र, दया च सर्वेषु तितिक्षाऽतिक्रमसहनम् । एवं दशविधो दशावतारः । क्रतवो- ऽसंख्याता ज्योतिष्टोमादयः । एते सर्वे सर्वदुःखहर्त्तुर्भमवतस्तनूस्तन्वः । तस्माद्विष्णौ प्रयत्नः प्रतिष्ठितः ॥ ४१ ॥
उपसंहरँस्तस्य मूलत्वमाह-
स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः॥
तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ।।
अयं हि तद्वधोपायो यदृषीणां विहिंसनम् ॥ ४२ ॥
स हीति ॥ मुख्य कार्यसंप्रत्यय इति न्यायाद् गौणानां
देवानां निराकरणं व्यर्थम् । पूर्वोक्तन्यायेन सर्वसुराणां विष्णु-
रेवाध्यक्षः प्रभुः । किञ्च अन्ये देवाः, तथा असुरान् न द्विषन्ति ।
कदाचित् सहभावोऽपि लक्ष्यते । हरिस्त्वसुरविडेव,
मारयितुमपि न शक्यते साक्षाद्यतो गुहाशयः । गुप्ते अन्तःकरणे
वा तिष्ठतीति । अध्यक्षत्वं च न लौकिकप्रभुवत् , किन्तु
मूलभूतोऽपीत्याह तन्मूला इति ॥ स्त्रीलिङ्गप्रयोगोऽचगणनार्थः ।
महादेवस्य ब्रह्मणश्च स्वतन्त्रतामाशङ्याहुः।। सेश्वराः सचतुर्मुखा इति
अतो विष्णोः प्रतीकारः कर्त्तव्यः । प्रतीकारश्च ऋषीणां निराकरणमेवेत्याह- अयमिति ॥ ऋषिपदेनैव सर्वे धर्मा उक्ताः ॥ ४३॥
एवं तेषां वचनं श्रुत्वा किं कृतवानित्याशङ्क्याह-
एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ॥
ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ।।४४॥
एवमिति ॥ नन्वयं क्षत्रियो ब्राह्मणरक्षकः कथं ब्रह्महिंसां
हितत्वेन मेने, तत्राह ॥ दुर्मन्त्रिभिरिति ॥ एते दुष्टा मन्त्रिणः