किन्त्वाधारत्वमपि । तदाह ॥ यत्रेति। यत्र विष्णौ सनातनो धर्मः । धर्मस्य प्रभुरच्युत इति वाक्यात् । तस्माल्लौकिकवैदिकदेवानां मूलं विष्णुः । तस्यापि मूलमाह ॥ तस्येति ॥ चकारादेवानामऽपि । ब्रह्म वेदः । गावो विप्राश्च तपोयज्ञाः सदक्षिणाः। प्रमाणं वेदः । हविरेकत्र, मन्त्राश्चैकत्र । द्विविधो हि धर्मः । प्रवृत्तिनिवृत्त्यात्मकः । प्रवृत्त्यात्मको यज्ञो निवृत्त्यात्मकस्तपः । सदक्षिणाः दक्षिणा यज्ञस्य भार्या । अनेन प्रवृत्तिधर्मत्वं तस्योक्तं, पञ्चात्मको वा मूलत्वेन निरूपितः। अनेन द्वयं मूलत्वेनोक्तं ब्राह्मणा गावश्च ।
तत्र दुहन्त्यो गावो, यज्ञकर्त्तारस्तपस्विनो वेदो ब्राह्मणाः॥३९॥
तेषां खननमाह-
तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।।
तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४०॥
तस्मादिति। सर्वात्मना लौकिकवैदिकसाधनैः स्वतः परतः
साक्षात् परम्परया च यथैव ते निवृत्ता भवन्ति । ब्राह्मणानां
विशेषणं ब्रह्मवादिनः । वेदवेदार्थविदः । उभयविधं च कुर्वन्तीति ।
तपस्विनो यज्ञशीलाश्च हविर्दुघाः पयोदोग्ध्न्यो गाः ।
हनधातोलेटि बहुवचनं, हन्म इति ॥ ४० ॥
एवं विष्णुमूलत्वेन ब्राह्मणगवां निराकरणं निरूप्य भगवच्छरीरत्वेनाप्येतान् निरूपयन्ति साक्षानिराकरणाय-
विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ॥
श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥४१॥
विप्रा इति । विप्रा गावः । चकारादन्यान्यप्यान्नानि ।
वेदाः । चकारादङ्गानि व्रतानि वा । तपः सत्यं दमः शम इति ।
ब्रह्मचर्याद्याश्रमधर्माः । तपः शारीरो धर्मः । सत्यं वाचः । दम