पृष्ठम्:श्रीसुबोधिनी.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

यस्त्वेकान्ते तदेकपरस्तिष्ठति हरिरपि तस्य सम्मुखो भवतीति स्तुतिपक्षे यथाश्रुतमेव । पक्षान्तरे स्त्रीतुल्यता निरूपिता॥ हरिणेति सर्वदुःखनिवारकत्वं निरूपयन्तो दुःखितेष्वेव शौर्यादिरहितेषु तस्याविर्भावो निरूपितः । अस्ति च त्रिपुरान्तकः शूरः । सोऽपि सर्वदा वनवासी तपस्वी । न हि वनस्थस्तपस्वी कस्य- चिद् द्विष्टो भवति असमत्वात् ॥ ३६॥

 देवेन्द्रस्तु यद्यपि वृत्रहा। तथाप्यल्पवीर्यः। अन्यथा वज्रादिप्रार्थनां कथं कुर्यात् । ब्रह्मा यद्यपि महान् भवति तथापि ब्राह्मण एव तपस्वी । एवं यद्यपि सर्वे देवा अप्रयोजकास्तथाऽपि राजनीतिविचारेण ते नोपेक्ष्या इत्याहुः । तथाऽऽपीति ।। देवानां दैत्यानां च सापत्न्यमस्ति । कश्यपदायादाः सर्वे भिन्नमातृजाः । ते शत्रव एव परस्परं भवन्ति । अतः सहजद्वेषित्वाद् यदैव ते पुष्टा भविष्यन्ति तदैव मारयिष्यन्तीति नोपेक्ष्याः । क्षीणदशायामेव मारणीयाः । अयमर्थो भवति नवेति विचारका जानन्ति । वयं त्वेवं मन्महे ॥

 एवं माहात्म्यं नीतिं चोक्त्वा किं कर्त्तव्यमित्याकाङ्क्षायामाहुः।। तत इति। यदेव देवानां मूलं भविष्यति तस्यैव खनने नियुङ्व आज्ञापय ॥ अनुव्रतानिति ।। योगेन रूढ्या च सर्वथा भवन्तमनुसृता वयम् । मूलमग्रे वक्तव्यं, खननं च मध्ये ॥ ३७॥

 उपेक्षायां को दोष इतिचेत्तत्राहुः-


 यथाऽऽमयोऽङ्गे समुपेक्षितो भि-
 र्न शक्यते रूढपदश्चिकित्सितुम् ॥
 यथेन्द्रियग्राम उपेक्षितस्तथा
 रिपुमहान् बद्धबलो न चाल्यते ॥ ३८ ॥