पृष्ठम्:श्रीसुबोधिनी.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९९
जन्मप्रकरणम्अध्ययः

विस्मृतशस्त्रास्त्रा भयात् । शस्त्राणि, धृत्वा यैार्यते । अस्त्राणि दूरात् । मन्त्रयुक्तानि वा । भयादुभयविधान्यपि विस्मृतानि । विगतो रथो येषाम् । सारथ्यादीनां वधात् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मविदिति वाक्याद् विरथोऽप्यवध्यः । भयेन सम्यग्नताः शरणागताः । प्रसङ्गादन्यानण्याह ॥ अन्या- सक्तविमुखान् || अन्यासक्ताश्च ते विमुखाश्च । उभयविधा वा । भग्नचापान अयुध्यतः । निरीक्षकान् न हंसीति संबन्धः ॥ एते पविधाः सप्तविधा वा न हन्तव्याः। अतस्त्वया स्वधर्मे परि- पाल्यमाने पूर्वन्यायेन देवा जीविता इति भावः ॥ ३५ ॥ ।  एवं साधारणानामप्रयोजकत्वमुक्त्वा महतामप्याह-

किं क्षेमशूरैर्विवुधैरसंयुगविकत्थनैः॥
रहोजुषा किं हरिणा शम्भुना वा वनौकसा ॥३६॥
किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता॥
तथापि देवाः सापत्न्यानोपेक्ष्या इति मन्महे ॥
ततस्तन्मूलखनने नियुक्ष्वास्माननुव्रतान् ॥३७॥

 किं क्षेमशरैरिति ॥ येऽपि वाय्वग्निवरुणाऽऽदयः शूराः मसिद्धास्तेऽपि क्षेमशूरा एव क्षेमे सति गृहे भार्यायां वा शूराः। यत्राक्षेमशङ्खव नास्तिान हि भार्या पति मारयिष्यतीति संभावना। यत्र पुनः संभावना मारयिष्यतीति तत्र पलायनमेव । एतदर्थपरि- ज्ञानादेव विबुधाः । एतच्छारीरशौर्य तेषां निरूप्य वाचनिकं शौर्य निरूपयन्ति । असंयुगविकत्थनैरिति ॥ विकत्थनं स्वशौर्या- विष्करणवाक्यम् । तदपि न संयुगे केनापि सह यदा न युद्ध- संयोगस्तदैव विकत्थनम् । एवं देवान् दूषयित्वा मुख्याँश्चतुर आहुः । अस्ति हरिः शूरः, परं कस्यापि स संमुखो न भवति ।