पृष्ठम्:श्रीसुबोधिनी.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

 अस्यत इति ॥ अस्यतः शरान् क्षिपतस्ते सतः संमुख- मनागता अपि तैः क्षिप्तैरेव शरव्रातैः सर्वतो हन्यमानाः संछिन्नभिन्नसर्वाङ्गा जिजीविषवो भूत्वा धर्मं संग्रामं चोत्सृज्य पलायनपराः सन्तो ययुः ॥ ३३॥

 देशस्याविवक्षितत्वाद् यत्र कापि । ये तु दूरस्थास्ते पलायिताः । येऽपि निकटस्थास्तेऽपि जिजीविषवो भूत्वा पलायनाऽसंभवादुपायान्तरं कृतवन्त इत्याहुः-


 केचित् प्राञ्जलयो भीता न्यस्तशस्त्रा दिवौकसः ॥
 मुक्तकच्छशिखा: केचिदुभीताः स्मइतिवादिनः ॥ ३४ ॥


 केचिदिति ॥ प्राञ्जलयः स्तोतुमिव प्रवृत्तानां कायिकी अवस्था प्रदर्शिता । भीता इत्यन्तःकरणस्य । त्यागे न हन्यत इति शास्त्रार्थपरिपालनाय न्यस्तशस्त्राः । तर्हि तेषां कथं स्व- धर्मत्यागे स्वर्गो भविष्यतीत्याशङ्क्याहुः ॥ दिवौकस इति ॥ स्वर्ग ओको गृहमात्रं, न तु स्वर्गभोग इत्यर्थः । ननु देवाः कथमयुक्तं कृतवन्त इत्याशङ्क्याहुः ॥ मुक्तकच्छशिखा इति ॥ मुक्ताः कच्छाः शिखाश्च येषाम् । परमापदा वैकल्यं तेषामुक्तम् । आपदि स्वधर्मास्त्यक्तुं शक्यन्ते । येषां पुनर्देवगत्या मुक्तकच्छशिखात्वं न जातं तेषां का गतिरितिचेत्तत्राह ॥ केचिद्भीताः स्म इति वादिन इति ॥ शरीरे भीतकार्यस्यादर्शनान्मुखत एव भीता वयमित्याहुः ॥३४॥ ॥ ननु ये वध्यास्ते सर्वथैव वध्या इति वचनेऽपि किं स्यात् , तत्राहुः-



 न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसन्नतान् ॥
 हंस्यन्यासक्तविमुखान् भग्नचापानयुद्ध्यतः ॥३५॥


 न त्वमिति ॥ संग्रामधर्मस्त्वया न त्यज्यते । अतो ये देवा