पृष्ठम्:श्रीसुबोधिनी.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१९९
जन्मप्रकरणम् । अध्यायः

विस्मृतशस्त्रास्त्रा भयात् । शस्त्राणि, धृत्वा यैर्मार्यते । अस्त्राणि दूरात् । मन्त्रयुक्तानि वा । भयादुभयविधान्यपि विस्मृतानि । विगतो रथो येषाम् । सारथ्यादीनां वधात् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मविदिति वाक्याद् विरथोऽप्यवध्यः । भयेन सम्यग्नताः शरणागताः । प्रसङ्गादन्यानप्याह ॥ अन्यासक्तविमुखान् । अन्यासक्ताश्च ते विमुखाश्च । उभयविधा वा । भग्नचापान् अयुध्यतः । निरीक्षकान् न हंसीति संबन्धः ॥ एते पविधाः सप्तबिधा वा न हन्तव्याः । अतस्त्वया स्वधर्म परिपाल्यमाने पूर्वन्यायेन देवा जीविता इति भावः ।। ३५ ॥

 एवं साधारणानामप्रयोजकत्वमुक्त्वा महतामप्याह-


 किं क्षेमशूरैर्विवुधैरसंयुगविकत्थनैः॥
 रहोजुषा किं हरिणा शम्भुना वा वनौकसा ॥३६॥
 किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता॥
 तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे ॥
 ततस्तन्मूलखनने नियुक्ष्वास्माननुव्रतान् ।।३७॥


 किंक्षेमशूरैरिति ॥ येऽपि वाय्वग्निवरुणाऽऽदयः शूराः प्रसिद्धास्तेऽपि क्षेमशूरा एव क्षेमे सति गृहे भार्यायां वा शूराः। यत्राक्षेमशङ्कैव नास्ति । न हि भार्या पतिं मारयिष्यतीति संभावना। यत्र पुनः संभावना मारयिष्यतीति तत्र पलायनमेव । एतदर्थपरिज्ञानादेव विबुधाः । एतच्छारीरशौर्यं तेषां निरूप्य वाचनिक शौर्यं निरूपयन्ति ।। असंयुगविकत्यनैरिति । विकत्थनं स्वशौर्याविष्करणवाक्यम् । तदपि न संयुगे केनापि सह यदा न युद्धसंयोगस्तदैव विकत्थनम् । एवं देवान् दूषयित्वा मुख्याँश्चतुर आहुः । आस्ति हरिः शूरः, परं कस्यापि स संमुखो न भवति ।