न विलम्बः । तदाह ।। अद्येति ॥ राजेन्द्रति सम्बोधनमाज्ञापना- ऽर्थम् । न निर्गतानि दशाहानि येषां ते अनिर्दशा अतिबालकाः निर्दशास्तु अतिक्रान्तदशाहाः । उभयानपि विशेषाऽऽकारेण सर्व एवं वयं हनिष्यामः । अत्र सन्देहो नास्तीति वैशब्दः । दैत्यगृहेष्वपि स्वसम्बन्धिष्वपि जाता हन्तव्या इति । राज्ञा चेद् भगिनीपुत्रा मारिताः, अन्यैरपि स्वकीया अपि मारणीया इति तैर्ज्ञातम् । अन्यथा प्रभुर्न वदेदिति ॥ ३१॥
एवं स्वकृत्यमुक्त्वा तस्य भयाभावार्थं तं प्रोत्साहयन्ति-
किमुद्यमैः करिष्यन्ति देवाः समरभीरवः॥
नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
किमुद्यमैरिति षड्भिः ॥ यथा भगवतः षड्गुणास्तथा
तव षड्गुणाः ।। सामर्थ्यं च जयश्चैव दीनत्वं च दया तथा *।
शत्रूणामल्पता चैव राजनीतिस्तथैव च ॥ यदि वालका हन्यन्ते
अन्यमुपायं करिष्यन्ति देवा इत्याशङ्ख्याहुः ॥ किमुद्यमैरिति ।।
उद्यममात्रं तेषां, न तु क्रियासामर्थ्यम् । यतः समरे भीरवः ।
सङ्ग्रामं दृष्ट्वैव विभ्यति । तथा भये तेषां निमित्तमाह ॥
नित्यमुद्विग्नमनस इति ॥ अयं हि दिग्विजये सर्वानेव मारितवान् ।
इन्द्रोऽपि भीतः पलायितः । ब्रह्मादयोऽपि लीनाः । धृत्वा च
देवान् यातनां प्रापयति । अतो यद्यन्यार्थमपि धनुष्टङ्कारं कुर्यात्
तथापि देवा उद्विग्नमनसो भवन्तीति नित्यमुद्विग्नमनसः। तवेति
संमत्यर्थं निरूपितम् ॥ ३२ ॥
धनुष्टङ्कारमात्रेणैव उद्वेगे पूर्ववृत्तान्तं हेतुत्वेनाह-
अस्यतस्ते शरवातैर्हन्यमानाः समन्ततः ।।
जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥