पृष्ठम्:श्रीसुबोधिनी.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

अवध्य एव स्यात् । तच्च देवानामनिष्टमिति । देवतामाया तकार्यं कृतवती । असुराणां वा भगवद्रूपा तेषां मुक्त्यर्थं तान् स्वधर्मनिष्ठान् कृत्वा सर्वशास्त्रविरोधिमोक्षं सम्पादयतीति तथा कथा । राजधर्मा हि अनुल्लङ्घनीयाः । यथा पूर्वमविचारेण कृतं तदन्यथा जातमतः परं विचारेण कर्तव्यमिति विचार्य मन्त्रिण आहूय विचारार्थं पूर्ववृत्तान्तमुक्तवानित्याह ।। तस्यामिति ॥ ज्ञानस्य जातत्वात् कार्यस्य विलम्बासहिष्णुत्वाच तस्यां रात्र्यां व्यतीतायामित्युक्तम् । मन्त्रिणोऽपि तामसस्य तामसा एवेति तन्नाम्ना ज्ञापितम् । देवक्यादौ विनयो यः कृतः स तु नोक्तः। योगनिद्रया यदुक्तं तत्सर्वमाचष्ट ॥ २९ ॥ ॥ यथा कंसो विवेकरहितस्तथा तथा तन्मन्त्रिणोऽपि । तेषां दौरात्म्यमाह-


 आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः ।।
 देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः॥३०॥


 आकण्येति ॥ भर्नुः कंसस्य गदितमाकर्ण्य श्रुत्वा विचार्य

च तं प्रत्यूचुः । एतेषां सरक्षायां न काऽपि बुद्धिः, किन्तु देवद्वेषकरणे अवसरो जात इति हृष्टा इत्याह । देवशत्रव इति ॥३०॥

 प्रथमतः स्वबुद्ध्या निश्चितं प्रतीकारमाहुः-


दैत्या ऊचुः॥


 एवञ्चेत् तर्हि भोजेन्द्र पुरग्रामव्रजादिषु ॥
 अनिर्दशान्निर्दशांश्च हनिष्यामोऽद्य वै शिशून्॥३१॥


 एवञ्चॆदिति ॥ यदि क्वचिद् बालक एव जातः, स तु मासमध्ये जातो भविष्यतीति । अनिश्चयेऽपि सर्वानेव बालकान्- मारयिष्यामः । ते बालकाः पुरस्था ग्रामस्था त्रजस्था वा भवन्तु । तरतमभावनिरूपणार्थं त्रयाणां ग्रहणम् । अस्माकं तु