पृष्ठम्:श्रीसुबोधिनी.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
जन्मप्रकरणम्अध्यायः

र्बाध्या धर्मा एवापोह्यन्ते, नतु धर्मी। ये हि भवन्ति ते नश्यन्तीति। यथा एकस्मिन् वस्त्रे शुक्लादयो धर्मा रञ्जकद्रव्यसंबन्धाद् उत्पद्यन्ते,विलीयन्ते च । परं बलीयस्त्वं नियामकम् । यद्बाधार्थमेव यस्मिन् भावे भगवान् निविशति स तं भावं दूरीकरोतीति भवदादीनां करणत्वमेव, न तु कर्तृत्वम् । न हि करणं क्वचिदुपालभ्यते स्तूयते वा । अदर्शने हेतुः। पृथग्दृश इति ॥ करणे सम्बद्ध एव । कर्ता करणाचेत् पृथग्ज्ञायते करणं वा ततस्तदैवं बुद्धिर्भवति, न तु सर्वत्राविष्टं भगवन्तं ज्ञातवतः। अतो मत्पुत्रा अपि भगवतैव मारिताः । त्वमऽपि मारणीय इति त्वयापि शोको न कर्त्तव्य इति भावः ॥ २७ ॥

 एवं मायाकृतं ज्ञापनं सकार्यं निरूप्य उपसंहरति--

श्रीशुक उवाच ॥


 कंस एवं प्रसन्नाभ्यां विशुद्धं परिभाषितः ॥
 देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥


 कंस इति ॥ एवं प्रसन्नाभ्यां स्वसिद्धान्तकथनेन सम्यक्- प्रसादो लक्षितः ॥ विशुद्धं परिभाषित इति ॥ राजन्निति सं- बोधनेन तदुक्तानुवादेन च निरूपितौ । एकस्यैव वचनं निरूपितमिति देवक्या अप्रसादशङ्कां वारयितुमुभयोर्ग्रहणम्। अतस्ताभ्यामनुज्ञातः प्रतीकारमकृत्वा गृहमेवाविशत् ॥ २८ ॥

 एवं मायाकार्यं भगवत्प्रेरणया कृतं निरूप्य स्वतन्त्रतया तत्कृतं निरूपयितुमाह-


 तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।।
 तेभ्य आचष्ट तत् सर्वं यदुक्तं योगमायया ॥ २९ ॥


तस्यामिति, यावदध्यायपरिसमाप्ति ॥ यदीदं न कुर्याद्