पृष्ठम्:श्रीसुबोधिनी.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

एव सर्वोऽपि व्यवहारः ॥ देहिनामिति ।। देहाध्यासवताम् । अहङ्कारस्याज्ञानजनितत्वे देहाध्यासः प्रयोजक इति अधिकारत्वेन निरूपितः । अन्यथाज्ञानमहम्बुद्धिः । तदज्ञानकृतमन्यथा स्वरूपे भासमाने अन्यन्न भायात् ॥ २६ ॥

 एवं तदुक्तं ज्ञानं नित्यानित्यवस्तुविवेकोपयोगित्वेन निरूप्य स्वसिद्धान्तसिद्धं ज्ञानं कृपयोपदिशति-


 शोकहर्षभयद्वेषलोभमोहमदान्विताः॥
 मिथोध्नन्तं न पश्यान्ति भावैर्भावं पृथग्दृशः ॥२७॥


 शोकेति ॥ अत्र वस्तुतः स्वयं न मारयतीति सत्यम् । अस्वतन्त्रत्वात् । किन्तु केनचित् प्रेरितो मारयति । इतोऽपि मुख्यः सिद्धान्तः। भगवानेव सर्वत्र प्रविष्टो मारयतीति शास्त्रम् । तस्य ज्ञाने जीवानां षड्धर्मा वाधका भगवत्प्रतिपक्षाः । शोक ऐश्वर्यस्य । स हि कर्तुमकर्त्तुमन्यथा कर्तुं समर्थः । तत्कृतेऽर्थे कथं शोकः । अन्यथा अपेक्षितं स्वांशानामन्यो न नाशयेत् । हर्षश्च प्राप्तौ भवति । तद्भगवतो वीर्ये कालरूपे ज्ञाते न भवेत् । भयं च न भवेद् यदि भगवतो यशो जानीयात् । स ह्ययुक्तं न करिष्यति । अन्यथा यशो न स्यात् । द्वेषश्च न भवेद् लोभश्च, यदि भगवदीयां श्रियं जानीयात् । द्वेषश्च स्त्रीकृतो भवति, लोभश्च धनकृतः । तदुभयं भगवत एवेति न स्वस्य तथा कर्तुमुचितम् । ज्ञाने भगवदीये ज्ञाते मोहाभावः प्रसिद्धः । मदस्तु वैराग्याभावात् । सर्वथैवाविरक्तो मत्तो भवति । अतोऽन्योऽन्यं मारयन्तमपि जना न पश्यन्ति । अन्यथा एक एव घातकः स्यात् । नन्वैकात्म्ये कथं वध्यघातकभावो भगवच्छास्त्रे उपपद्यत इतिचेत तत्राह ।। भावैर्भावमिति ॥ भवन्तीति भावा धर्माः । वाधकैर्धमै