कर्तृत्वं तु मायायाः सिद्धमेव । प्रथमतो देवकी पश्चाद्वसुदेवं चकारात्तत्सम्बन्धिनश्च स्वयं परिचयाँ कुर्वन् आत्मनः सौहृदं च दर्शयञ्जातः ॥२४॥
प्रसादे प्रार्थिते ताभ्यां प्रसादः कृत इत्याह-
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।।
व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह॥२५॥
भ्रातुरिति ॥ सम्यगनुतप्तस्य पश्चात्तापेन तप्तस्य तत्रापि
भ्रातुः सम्बन्धि रोषं क्षान्त्वा समित्वा क्षान्तरोषा वा तत्कृतं
पूर्वापराधं व्यसृजद्, रोष वा पाठभेदात् । तदीयो रोषः सोढः
स्वकीयं तु त्यक्तवती । कृतकार्यस्य तद्रोषस्य सहनम् ।
अकृतकार्यस्य स्वकीयस्य परित्यागः । एवं वसुदेवश्च ।
चकारादन्येऽपि । रोषमपराधं च क्षान्त्वा । यतो देवकी
देवतारूपा, वसुदेवोऽपि तथा । तस्यास्तु शोकाभावो
मुखप्रसादेनैव ज्ञातः । वसुदेवस्तु गूढहृदय इति
कदाचिदप्रसन्नो भवेदित्याशङ्क्य हास्यं वचनं
चाऽऽह ॥ प्रहस्य तमुवाचेति ॥ हेत्याश्चर्यम् ।
पुत्रमारकस्त्वसम्भाष्य इति ॥ २५॥
तदुक्तं ज्ञानं तस्यैव हृदयारूढं भवत्विति तस्यानुमोदनं करोति-
वसुदेव उवाच ॥
एवमेतन्महाराज यथा वदसि देहिनाम् ॥
अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥
एवमेतदिति ॥ महाराजेति सम्बोधनं,
मारणस्यादोषज्ञापनार्थम् । यतस्त्वमात्थ । एवमेतत् ।
तन्निष्पिण्डितमनुवदति । देहिनामज्ञानप्रभवा अहंधीरिति ॥
देहादावहम्बुद्धिरज्ञानादेव जायते । तस्मात् स्वपरोति
भिदा स्वः पर इति । एतन्मूलक-