पृष्ठम्:श्रीसुबोधिनी.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

दीनेषु वत्सलाः । मम च दीनत्वमपकीर्त्तिनरकभोक्तृत्वेन । स्वस्य दैन्यं न केवलं वचनेन निरूपितं, किन्तु रूपेणापि तदऽभिव्यक्तिं कृतवानित्याह ॥ इत्युक्त्वा अश्रुमुखो, जात इति ।। अश्रूणि मुखे यस्य । विकलत्वात् प्रोञ्च्छनमपि न करोति । यद्ययम् अकर्तव्यमपि कनिष्ठभागन्याः पादग्रहणं करोति, तदान्यत् किं न कुर्याद् गृहीतधनादिदानं वा अतिरिक्तदानं वा । स्वसृशब्देनैव स्वसृतत्पती अभिधीयते इति तत्सम्बन्धादेव वसुदेवस्य मान्यत्वात् साक्षात्तं प्रति नमस्कारेऽपि दोषाभावात् एकस्या एव पादौ द्विवद्गृहीतवानिति ज्ञापयितुम् । एकशेष- शास्त्रे, पुमान् स्त्रियेत्यादिसूत्रेषु चतुर्पु तृतीया ज्ञापयति, अप्रधान न शिष्यत इति । अन्यथा, स्त्रीपुरुषाभ्यामिति प्रयोगो न स्यात्, स्त्रीपुंभ्यामिति च । अत्रापि तद्भर्त्रा सहिता स्वसैवावशिष्यते । अथेति भिन्न प्रक्रमो दैत्यावेशस्य राजसभावस्य च त्यागार्थः॥२३॥  निरोधं च दूरीकृतवानित्याह--


 मोचयामास निगडाद् विस्रब्धः कन्यकागिरा ।।
 देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४ ॥


 मोचयामासेति ॥ निगडी स्तम्भवद्धौ । अतो निगडान्मोचयामासेत्युक्तम् । अर्थादुभावपि । तत्तु बन्धनागारं भवतीतिन निगडदरीकरणम् । नन्वेतावक्षुब्धौ, आकाशवाणी च प्रमाणम् । अत एताभ्यामेव किञ्चित् कापट्यं कृतमस्तीति कथं न विचारितवाँस्तत्राह ॥ विस्रब्धः कन्यकागिरेति ॥ कन्यका माया । तस्या वचनमसत्यमपि सम्भाव्यते, तथापि तत्रैव विश्वासं कृतवान् यत्र क्वचिदिति,कृपणामिति लिङ्गवचने देवक्या दोषाभावसूचके । वसुदेवेनैव तथा कृतत्वात् । अन्यथा स्फूर्ति-