त्वज्ञापनाय । अनेन मयापि बहिर्मुखत्वेन कृतं कर्म भोक्तव्यमित्यविचारितोऽपि दण्डो भविष्यतीति दण्डाभावेनापि चिन्ता न कर्तव्या ॥ २१ ॥॥ ॥ ननु त्वया ज्ञानमुपदिष्टम् । उपदेष्टुर्दृढं ज्ञानं भवतीति न तव दण्डसंभावनेतिचेत्तत्राह--
यावद्धतोऽस्मि हन्ताऽस्मीत्यात्मानं मन्यतेऽस्वदृक् ।
तावत्तदभिमाऽन्यज्ञो बाध्यबाधकतामियात् ।। २२ ॥
यावदिति ॥ यावदयं जीवः शास्त्रोत्पन्नज्ञानोऽपि
हतोऽस्मि हन्तास्मीति आत्मनः कर्मत्वं कर्तृत्वं वा मन्यते
तावद्धाध्यवाधकतामियादेव । कर्मत्वे बाधकत्वमिति ।
अक्रिय आत्मनि यथैव क्रियां मन्यते तथैव क्रियां प्राप्नोतीत्यर्थः ।
नन्वविद्यमानधर्मप्रतीतौ को हेतुस्तत्राह ।। अस्वदृगिति ।।
न स्वस्मिन् दृष्टिर्यस्य । शास्त्रज्ञानं शास्त्रीयत्वेनैव जानाति,
न तु स्वविषयत्वेन । ततोऽपि किमत आह ॥ तावत्तदभिमानी
भवतीति ॥ स्वरूपे ज्ञाते देहायध्यासो न भवति । अध्यासे पुनः
स्वरूपाज्ञानमिति तदभिमानी अज्ञ एव भवति । अतो
बाध्यबाधकभावः ॥ २२॥
एवं भवद्वालकानामस्माकं च कर्मवशात् सर्वं जातं भविष्यति च । अतः शोको दण्डो वा न चिन्तनीयः । परमतिक्रमदोषो मदीयः सोढव्य इति वदन् क्षमापनार्थं नमस्कारं करोति-
क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः ।।
इत्युक्त्वाश्रुमुखःपादोश्यालःस्वस्वोस्तदाग्रहीत्।।२३।।
क्षमध्वमिति ॥ मम दौरात्म्यं क्षमध्वम् । अविचारेण
अन्यायकर्ता दुरात्मा। अत आज्ञोल्लङ्घनं पुत्रमारणादिकं च यत्
कृतं तत् सर्वं क्षमध्वम् । महतां हृदये अनुशये स्थिते शोको
भूयान् भवति । क्षमापनार्थं न किञ्चिदातव्यम् । यतः साधवो