विद्यमानत्वादन्यथा बुद्धिर्भवेत् । किञ्च न केवलं विपर्ययमात्रजनकत्वं, किन्तु देहवियोगावपि भेदकृतावेव । यथा देवदत्तस्य यज्ञदत्तदेहे जाते गते वा स्वस्य न कापि विक्रियोत्पद्यते । एवं स्वस्याप्यात्मन एकत्वे ज्ञाते नोत्पद्येत । चकारस्तु सर्वव्यवहारसमुच्चयार्थः । किञ्च भेदस्त्वपारमार्थिक इति कार्यान्तरादप्यऽवसीयते । तदाह । संसृतिर्न निवर्त्तत इति ॥ भेदज्ञाने विद्यमाने जन्ममरणयोर्विद्यमानत्वात् संसारो न निवर्त्तते ॥ अत आत्मनः अविकृतत्वं ज्ञातव्यम् । तदविकृतत्वमपरिच्छेदकूटस्थत्वव्यतिरेकेण न सिद्ध्यतीति कूटस्थो व्यापक: अविकृत आत्मा ज्ञातो भवति । तस्मिञ्ज्ञाते शोको न सम्भवति ॥ २० ॥
तत्तु भवद्भयां ज्ञायत एवेति शोको न कर्त्तव्य एवेत्याह-
तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि ॥
मानुशोच यतः सर्वः स्वकृतं भुञ्जतेऽवशः ॥ २१ ॥
तस्मादिति ॥ वसुदेवस्तु शोकं न करिष्यतीति
देवकीसंबोधनं, भद्रे इति ॥ अतः परं तव कल्याणमपत्यं
च भविष्यतीति ज्ञापितम् ॥ स्वतनयान् देवकीतनयान्
माऽनुशोच । प्रथमत आत्मानं शोचति ततः पुत्रमित्यनुपदम् ।
यद्यपि ते स्वकर्मवशादेव मृताः, न तु मया व्यापादिताः।
तत्कर्मैव मां च प्रेरितवत् । अथापि बहिर्दृष्ट्या मयैव
व्यापादिता इत्यङ्गीक्रियते, तथाऽपि मा शोचेत्याह ।
मया व्यापादितानपीति ॥ अनुशोके
बहिमुखानामप्येकानुपपत्तिः । तामाह ॥ यतः सर्वः स्वकृतं
भुञ्जतेऽवश इति । अनिच्छन्नपि परवश एव कर्माधीनो भूत्वा
सर्वोऽपि स्वकृतं भुङ्क्ते । अस्य मते न सृष्टेश्चातुर्विध्यम् ।
भुञ्जत इति बहुवचनप्रयोग एकवचने देहभेदेन भोगेन
नानात्वप्रतीतेः सिद्ध-