सिद्धः । अन्यथा आत्मानन्त्यकल्पना प्रसज्ज्येत । यथा देहे
लोमानि न पृथगात्माधिष्ठितानि । तथा भूमावप्येक एवात्मा
तत्संबन्धात् कोटिशस्तृणादीन्युत्पद्यन्ते विलीयन्ते च । अधिष्ठात्र्यो
देवतास्तु भिन्नाः ॥ १९॥
नन्वेवमैकात्म्ये कथं लोके भेदव्यवहार इतिचेत्तत्राह-
यथाऽनेवंविदो भेदो यत आत्मविपर्ययः॥
देहयोगवियोगौ च संमृतिर्न निवर्तते ॥ २० ॥
यथेति ॥ यथा यथावदनेवंविदो भेदो, नत्वेवंविदः।
आपातत एवं वित्त्वेऽपि भेदप्रतीतिर्न गच्छतीति यथेत्युक्तम् ।
यथाऽनेवंविद इत्येकं पदम् । समासान्तस्त्वनित्यः ॥ भेदस्तु
द्वित्वसाध्यः । न ह्येकास्मिन् भेदबुद्धिर्भवति । द्वित्वं
त्वपेक्षाबुद्धिजन्यम् । अतो द्वित्वं न वस्तुनिष्ठं, किन्तु
बुद्धिस्थविषयकमेव । बुद्ध्या बहिर्विषयोत्पादनासम्भवात् ।
अतः, अज्ञानकृत एव भेदो भवति ।
अपेक्षाविषयाणामभावात् । निरपेक्षेष्वपेक्षाबुद्धिरज्ञानकृतैव ।
ननु भेदः, पारमार्थिकः, श्रुतिस्मृतिव्यवहारोपयोगित्वात् ।
आत्मवदिति अनुमानाद् भेदः पारमार्थिक एवेतिचेतत्राह ।।
यत आत्मविपर्यय इति ॥ भेदः पारमार्थिकः स्यात
तत्कृतेन व्यवहारेण आत्मविपर्ययो न स्यात् । अज्ञानस्य
भेदोत्पादकत्वेनैवान्यथाबुद्धिहेतुत्वात् । अन्यथा सुषुप्तावज्ञानस्य
ऽस्तीति मन्तव्यम् । विपक्षे बाधकमाहुः॥अन्यथेति ॥ एकतृणरूपेण एकस्यात्मनो विकृती सत्यां निरवयवत्वेनांशभेदस्य वक्तुमशक्यवाद्वितीयादिषु तेषु भिन्नो भिन्न आत्माङ्गीकार्यः स्यादित्येकस्मिन् पृथिवीलक्षणशरीरेऽनन्ता आत्मानः कल्पनीयाः स्युरित्यर्थः॥ अधिठाच्य इति ॥ त्वगादिगोलकेषु लोमादीनामिन्द्रियाणामोषध्यादयो देवताः शरीरभिमान्यात्मनः सकाशाद्भिन्ना इत्यर्थः ॥