निरूपणम् । भुवि भौमानि भित्त्यादीनीत्येव सम्बद्ध्यते ।
भूतानीति त्वात्मनीति वा || भूतानि जातानि वा । तेष्वेव
भूतेषु विद्यमान आत्मा न तथेति वक्तुं दृष्टान्त एव प्रवेश
उक्तः। यथा बहिः स्थिता पृथिवी न विक्रियते,
एवमन्तःस्थित आत्माऽपि । तथैतेष्विति भिन्नं वाक्यम् ।
एतेषु मनुष्यदेहेष्वपि आत्मा न विक्रियत इति । एतेषु
मनुष्यादिदेहेषु भूम्यविकारः प्रत्यक्षसिद्धम् । वर्षाकालोद्भवेषु
तृणादिषु च । आत्माविकारश्च प्रत्यक्ष-
ननु भुवि भौमानि यथा यान्त्यपयान्ति तथात्मा न याति
नापयातीत्येतावतैव वाच्योऽर्थः सम्पद्यत इत्यन्यानि पदानि व्यर्थानि ।
किञ्च, यथा भूर्न विक्रियत इति द्वितीयो दृष्टान्तो बाधितः। भौमानां
भूविकारत्वादित्यऽरुच्या पक्षान्तरमाहुः ॥ भुवि भौमानि भित्यानीत्यादि ॥
भुवि भौमानि भित्यादीनि यथा यान्त्यपयान्ति च ।
भूतान्यबादीनि च यान्त्यपयान्ति । आत्मा त्वेतेषु भूतेषु विद्यमान
एव नतथा । न याति नापयातीत्यर्थः । एतेन भूतानीतिपदस्यात्मनि
सम्बन्धे प्रकार उक्तः । यद्यप्येवमपि भूतपदमेतेष्वित्यादिपदानि च
न सार्थकानि भवन्ति, तथापि तेषु विद्यमानस्यापि
तद्धर्मासंबन्धकथनात्तथात्वम् । अन्यथैतदर्थाप्राप्तेः ॥ दृष्टान्त एवेति ॥
दृष्टान्तनिरूपकवाक्ये भूतपदस्यापि प्रवेश उक्त इत्यर्थः । अतः परं,
यथा भूरिति दृष्टान्तं विवृण्वन्ति ॥ यथा बहिरित्यादिना ॥ भौमानि यदा
विक्रियन्ते तदा तेभ्यो बहिःस्थिता स्थूला भूर्न विक्रियते, तथैतेष्वन्तःस्थित
आत्माऽपि तथा । एवं सति न तथैतेष्वित्यस्यावृत्तिः कार्या । तदेतदुक्तं,
तथैतेष्विति भिन्नं वाक्यमित्यनेन ॥ अस्मिन्नेव पक्षे, एतस्वित्यादिपदानि
प्रकारान्तरेण व्याकुर्वन्ति ॥ एतेषु मनुष्यदेहेष्वपीत्यादिना ॥ यथा
बहिःस्थिता भूर्मनुष्यदेहेषूत्पद्यमानेषु न विक्रियते तथात्मापीत्यर्थः ॥
अग्रे तूक्तेऽर्थे प्रमाणमुक्तम्- एतेष्वित्यादिना ॥अथ प्रकारान्तरेणार्थमाहुः ॥
वर्षाकालेत्यादिना॥ एतेषु तृणादिषूत्पद्यमानेषु यथा भूर्विक्रियते, न तथा
तदन्तर्गत आत्मेत्यर्थः । व्यतिरेकेऽत्र दृष्टान्तः । यः पृथिव्यां तिष्ठन्
पृथिवीमन्तरो यं पृथिवी न वेद पस्य पृथिवी शरीरमिति श्रुतेः
पृथिव्यन्तर्गतोऽभिमान्यात्मा-