उभयेषां स्थितिर्नाभूदिति शोचाम इतिचेत्तत्राह ।। जन्तव इति ॥
ये हि निरन्तरं जायन्ते, जायस्व म्रियस्वेतिमार्गवर्तिनः, ते सदैव
एकत्र नासते । यतो भगवदिच्छा तथैव तेषु । तदाह ।। दैवा-
ऽधीना इति । यदापि तिष्ठन्ति तदापि पूर्ववासनया शत्रुमित्रो-
दासीनत्वस्य नित्यत्वान्न सम्यगासते । सहासत इति वा
पाठः ।। १८॥
एवं लौकिकन्यायेन स्वापराधाभावं प्रार्थयञ्च्छाकापनोदनं कृतवान् । पुनःशास्त्रानुसारेणापि शोकापनोदनमाह, चतुर्भि:-
भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च ॥
नाऽयमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
भुवीति ।। पूर्वं ते म्रियन्तइत्यङ्गीकृत्य शोकापनोद उक्तः।
इदानीं ते न म्रियन्त एवेत्युच्यते ॥ आत्मा, नित्यः सर्वगतः
स्थाणुरिति वाक्याद् व्यापको गमनागमनादिशून्यः कूटस्थः ।
| सांख्यानामेवमेव मतं दैत्यानां हृदये समायातीति तदेवोच्यते ॥
देहास्तु आकाशे अभ्रतमःप्रकाशा इव उच्चावचाः समायान्ति
गच्छन्ति च, न त्वाकाशे कश्चन विकार उत्पद्यते । तथा
पुत्राणामप्यात्मत्वात् तेषां देहे गते न काचित् क्षतिः, स्पष्टतया
व्यवहार्यत्वाद् भूमिदृष्टान्तो बुद्ध्यत इति तमाह ॥ यथा भौमानि
भूविकाराणि भूतानि कृमिकीटादीनि वृक्षादीनि वा यथा यान्ति
भूमेः सकाशादुत्पद्यन्ते पृथग भवन्ति अपयान्ति च, भूमावेव
लयं प्राप्नुवन्ति, तेषु उद्गतेषु लीनेषु वा । भूमिस्तु न विक्रियते ।
यथा आत्मन्यपि देहा यान्त्यपयान्ति च॥ आत्मोपार्जिकर्मवशादेव
उत्पद्यन्ते लीयन्ते च । तथापि आत्मा न वा उत्पद्यते, न वा
लीयत इत्यर्थः । यथा भूस्तथा देहानामपि भौतिकत्वान्न पृथग्