पृष्ठम्:श्रीसुबोधिनी.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


दैवमप्यन्तं वक्तीति ॥ आकाशवाणी दैवम् । अस्यास्त्वामष्टमो गर्भ इति वाक्यं, दुर्गापि देवता । एकं तु प्रत्यक्षसंवादि । आकाशवाण्यास्तु वाक्यं विसंवादि । देवगुह्याज्ञानादेवं वचनम् । मर्त्त्येष्वनृतं प्रतिष्ठितमिति वाक्यात् । मनुष्याणामनृतं दैवेषु सत्यम् । तदत्र विपरीतम् । न केवलं मर्त्त्या एवाऽनृतवादिनः, किन्तु दैवमप्यनृतं वक्ति । अतो यद्विश्रम्भाद् यद्वाक्यविश्वासात् स्वसुः सुतान् वृथैव निहतवान् । ननु सन्देहे प्रमाणमन्तःकरणप्रत्तय इति तदहृदये कथं भातमितिचेत्तत्राह ॥ अहं पाप इति ॥ महतां हि हृदयं प्रमाणं, न तु पापनिष्ठानाम् ॥ शिशूनिति वयःसंख्ये विरुद्धे निरूपिते ॥ अष्टम एक एव हन्तेति सामथ्र्यप्रतिपादकवाक्यात् ॥ १७ ॥

 नन्वतः परं किं कर्त्तव्यमित्याशङ्क्याह-


 मा शोचतं महाभागावात्मजान् स्वकृतम्भुजः॥
 जन्तवो न सदैकत्र दैवाधीनाः सदासते ॥ १८ ॥


 मा शोचतमिति ॥ महतां शोके हेतुभूतः प्रायश्चित्तेऽप्यऽनधिकारी भवतीति मत्कृपया शोको न कर्त्तव्यः । नन्वपकारिणि कथं कृपेतिचेत् तत्राह ॥ महाभागाविति, सम्बोधनम् ॥ महतां शत्रुमित्रोदासीनभावो नास्ति । ननु महत्त्वादेव शोकाऽभावे सिद्धे कथं शोकाभावो बोध्यत इतिचेत्तत्राह ॥ स्वात्मजानिति ।। न हि स्वाकृतार्थत्वेन शोकः, किन्तु बाला अकृतार्थाःगता इति । तेषां शोकाविषयत्वे हेतुमाह ॥ स्वकृतम्भुज इति ।। यद्यपि मरीचिपुत्रा एवं जाता इति न जानाति, तथापि कार्यादनुमिनोति । अतस्तैरपि तादृशं कर्मकृतमस्ति, येन वाला एव हताः । ननु न वयं ताञ्च्छोचामो, नात्मानं, किन्तु एकत्र