पृष्ठम्:श्रीसुबोधिनी.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
जन्मप्रकरणम्अधयायः

कृतमिति य एव मन्यते स एव तत्फलं प्राप्नोतीति । यतः सोऽहम् । जिघांसन्तं जिघांसीयादिति वाक्यात् तव को दोष इतिचेत् तत्राह ।। त्यक्तकारुण्य इति।। प्रथमतो ये हतास्ते तु न जिघांसवो भवन्ति तथा त्वं वा । यदा ते मारयितुमायान्ति समर्था वा तदैव वध्याः,न तु बालका दीनाः । अतो येषु कारुण्यं कर्त्तव्यं बालकेषु भागिनेयेषु तेषु न कृतमिति त्यक्तकारुण्यः । ननु संभावनयापि शत्रवो मार्यन्ते,शत्रुपुत्राश्च । अतो राज्ञां संभवानयाऽपि वधो नदोषायेतिचेत् तत्राह । त्यक्तज्ञातिसुहृदिति ॥ त्यक्ता ज्ञातयः सुहृदो मित्राणि च येन । नयाऽऽत्मघातकाः सर्व एव वध्याः। भ्राताऽपि भ्रातरं हन्यादिति तत्राह । खल इति ।। मयैव परं ते मारिताः, न तु तैरहम् । अतोऽहमेव खलो वृथैव परघातकः। अतो दुष्टकर्मणः कृतत्वात् कान् लोकान् संगमिष्यामि । ननु सिद्धा एव तामिस्रादयो घातकानां ये, तत्राह ।। ब्रह्महेवेति ॥ ननु, ब्रह्महा पच्यते घोरे पुनरावृत्तिवर्जिते इति वाक्यात् कः सन्देह इतिचेन्न । प्रायश्चित्तस्य करिष्यमाणत्वाद् वधजनितो दोषो न भविष्यति, परं महतामपचारात् प्रायश्चित्तं दुर्वलं न वेति सन्देहादेवं वचनम् । ननु प्रायश्चित्ते नास्त्येव नरकः, कथं सन्देह इतिचेत् तत्राह ॥ मृतः श्वसन्निति ॥ अयं पुरुषः श्वसन्नेव मृतः । अपकीर्त्तेर्जातत्वात् । अतो ज्ञायते यदि पापं गच्छेत्तदा तदभावः सर्वजनीनः स्यात्, सर्वात्मकत्वाद्भगवतः । अतो मृतः श्वसन् यतो वर्त्ते । प्रायश्चित्तशास्त्रस्य च प्रामाण्यात् सन्देहकथनम् ॥ १६ ॥8॥ एवं सम्भावनया फलं निरूप्य अयं मम सहजदोषो न भवतीति स्वदोषपरिहारं वदन्निवाह-


 दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् ॥ ,
 यद्विश्रम्भादहं पापः स्वसुनिहतवाञ्छिशून् ॥१७॥