अहो भगिन्यहो भाम मया वां बत पाप्मना ॥
पुरुषाद इवाऽभ्येत्य बहवो हिंसिताः सुताः ॥१५॥
अहो इत्यष्टभिः ॥ स्वापराधस्य कथनं फलस्यापि च
कीर्तनम् *| भ्रमाञ्चैवापराधोऽयं शोकदूरीकृतिस्तथा ॥ एवं
चतुर्भिर्लोकोक्त्या शोकाभावो निरूपितः *| तत्त्वावबोधनेनापि
चतुर्भिः शोकनाशनम् ।। आत्मनो न हि शोकोऽस्ति ज्ञानादृष्टश्च
नश्यति *| अतः शोको न कर्तव्यः कर्माज्ञानवशो यतः।
प्रथमतः स्वापराधकीर्तनेन क्षमापयति ॥ अहो इत्याश्चर्येण
सम्बोधनम् । आश्चर्याविष्टस्तथैवागत्य देवकीं वसुदेवं च
पृथक् प्रार्थयते ।। अहो इति पृथग्वचनम् । भामस्तु
भगिनीपतिः । सम्बन्धेन सम्बोधनं स्नेहार्थम् ॥ वां युवयोः॥
पापस्य स्वस्य च भेदाभावं वदन्नाह ॥ पाप्मनेति ॥ बतेति
खेदे । पश्चात्तापेन वदामीति ज्ञापयति । न त्विदं प्रतारणार्थम् ।
पुरुषादो राक्षसः । स हि भक्षणार्थ बालकान् नयति । तथा
मया स्वदेहरक्षाभ्रमाद् युवयोर्बहवः सुता विहिंसिताः । राक्षसानां
सम्बन्धाद्यपेक्षा शास्त्रापेक्षा च नास्ति, किन्तु प्राणरक्षार्थमेव
सर्वेषां सर्वपुरुषार्थसाधकानि अपत्यानि भक्षयन्ति,तथा मया
मारिता इति तुल्यता। ततोऽपि विशेषस्तु वहव इत्यनेन ज्ञापितः ॥ १५॥
एवमपराधस्य फलमपि संभावयति--
स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः ॥
काँल्लोकान् संगमिष्यामि ब्रह्महेव मृतःश्वसन् ॥१६॥
स त्वहमिति ॥ दैत्यावेशात् कृतं, स्वतस्त्वं समीचीन इति न तव नरकसंभावनेत्याशङ्क्य तुशब्दस्तं पक्षं व्यावर्त्तयति । मया