श्रीशुक उवाच ॥
इति प्रभाष्य तं देवी माया भगवती भुवि ।।
बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
इतीति ॥ प्रकर्षण भाषित्वा स्पष्टतया निरूप्य । अनेन
संवादान्तरमपि कंसेन सह कृतवतीति लक्ष्यते । अन्यथा
ब्राह्मणैः सह विरोधं न कुर्यात् । तेन सह संवादेनैव कार्यं सर्वं
सिद्धमिति ज्ञातवतीत्यत्र हेतुमाह ॥ देवीति ॥ यद्यन्योऽप्यागत्य
स्पष्टमन्यथा वदेत् तथापि तया मोहितः कंसो नान्यदङ्गीकुर्यादित्यत्र
हेतुमाह ।। मायेति ।। तस्या गमने हेतुमाह ॥ भगवतीति ॥
सा हि भगवद्भावपाकट्यं कृत्वा लोके पूजां प्राप्स्यतीति
भगवद्वाक्यानुसारेण बहुनामनिकेतेषु भूमौ यावन्ति स्थानानि
यन्नामानि तत्र सर्वत्रैव स्थिता बहूनि रूपाणि कृत्वा बहुनामा
बभूव । दुर्गादिमूर्तिषु रूपभेदस्य स्पष्टत्वाद्देवकीवसुदेवयोर्निवन्धो
व्यर्थः ॥ १३॥
शत्रुस्तु जात इति मायावचनं श्रुत्वा कंसः किं कृतवानित्याकाङ्क्षायामाह-
तया कथितमाकर्ण्य कंसः परमविस्मितः ।।
देवकी वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
तयेति ॥ वाक्यं तु भगवत्सम्बन्धि । तया तु परं
केवलमभिहितम् । तदाकर्ण्य परमविस्मयं प्राप्तवान् । यदीयं
देवता ज्ञायेत धृत्वैव स्थाप्येत । तद्वाक्यविश्वासाद्देवकीं वसुदेवं च
विमुच्य शृङ्खलां दूरीकृत्य देवीवाक्यादुत्पन्नशुद्धभावः प्रश्रितो
विनीतोऽब्रवीत् । कायिकं मानसं च शुद्धभावं प्रदय वाचिकं
प्रदर्शितवानित्यर्थः॥ १४ ॥ ॥॥ तस्य वाक्यान्याह-