पृष्ठम्:श्रीसुबोधिनी.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 सिद्धचारणगन्धर्वैरप्सरः किन्नरोरगैः ॥
 उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥११॥


 सिद्धचारणेति ॥ सिद्धचारणगन्धर्वास्त्रिगुणाः । अन्ये च । अप्सरैरिति, बहुलं छन्दसीत्यनेन । ऐकपचं तु सुगमम् । अस्याः षड्गुणोपजीवका एते । कंसदर्शन एव उपाहृता उरुबलयः पूजासाधनानि यैः । बलिशब्दो जयजयादिशब्दानामप्युपलक्षकः। अतस्तैः स्तूयमाना, कंसवधं कर्तुं शक्ताहमिति ज्ञापयन्ती इदं वक्ष्यमाणमब्रवीत् ॥११॥

 द्वयमत्र वक्तव्यं, कथं न हन्यते, कथं वा रक्षार्थं न स्थीयत इत्युभयसमाधानम् । तदाह---


देव्युवाच ॥


 किं भया हतया मन्द जातः खलु तवान्तकृत् ॥
 यत्र क्वचित् पूर्वशत्रुमा हिंसीः कृपणां वृथा ॥१२॥


 किं मयेति ॥ मया हतया किम् । अहं तु हननेऽप्यपकारं न करोमि, किं पुनरहता । अत एतद्वृत्तान्ताज्ञानात् त्वं मन्दः । अवधे हेतुः, जातः खलु तवान्तकृदिति ॥ यस्तु तवान्तं नाशं करिष्यति स तु जात एव क्वचित् । यत्रक्वचिदिति विशेषाकथनं देवगुह्यम् । ननु शत्रुत्वाविशेषेऽपि सामर्थ्ये विद्यमानेऽपि यद् भगवतैव हन्यते, न त्वयेति को विशेष इतिचेत् तत्राह ॥ पूर्वशत्रुरिति ॥ मम त्विदानी भवाञ्च्छत्रुः, तदप्यन्यबुद्ध्या । भगवांस्तु भवतः पूर्वशत्रुरतस्तेनैव हन्तव्यः । आकाशवाण्याऽपि तथैवोक्तम् । अतः कृपणां देवकी मा हिंसीः । तस्या वधे न कोऽपि पुरुषार्थः सिद्ध्येत् । अतो वृथैव मा हिंसीः ।। १२॥

 एवमुक्त्वा गतेत्याह--