सा तद्धस्तादिति ॥ यदैव पाषाणं प्रति प्रक्षिप्तवाँस्तदैव
हस्तात् सम्यगुत्पत्य उत्पतनं कृत्वा सद्य एव सा देवतारूपा
जाता । ततोऽम्बरं गता आकाशे श्येनवत् स्थिता । कंसादिभिः
सर्वैरेव तथाऽदृश्यत । तस्यास्तथात्वे सामर्थ्यं विष्णोरनुजेति ॥
यशोदा देवकी परस्परविचारेणैकैव । पश्चाच्च ज्ञाता । यदि वा
भगवान् यशोदासुतो, यदिवा देवाक्याः, उभयथापि सा अनुजा
लोकप्रसिद्धः । विष्णोरनुजात्वेन तथा सामर्थ्यं ज्ञापितम् ।
द्विगुणं रूपमाह ॥ सायुधाष्टमहाभुजेति ॥ भगवत्कार्यं स्वकार्यं
च करिष्यतीत्यष्टभुजत्वम् । भगवत्कार्यं देवक्यादीनां बन्धनिवृत्तिः,
स्वकार्यं सर्वेषां दुःखदानं धर्मनाशश्च । भगवत्कृतिसिद्ध्यर्थमायुधसहिता ॥
अष्टौ महाभुजा यस्याः । यथा भगवान् आविर्भावे विपरीतं रूपं
प्रदर्शितवान् एवमियमपि ॥९॥
आविर्भावादिदानीं रूपान्तरं गृहीतवतीति तस्याः सामग्रीमाह-
दिव्यस्त्रगम्बरालेपरत्नाभरणभूषिता॥
धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १० ॥
दिव्यति ॥ दिव्याः स्र्जो मालाः, अम्बराणि वस्त्राणि दिव्यान्येव आलेपश्चन्दनादिः । रत्नयुक्तान्याभरणानि च । एवमलङ्करणचतुष्टयसहिता । दर्शनकृतोऽयं क्रमः । प्रथमतो गन्धाददृष्टाया अपि सजा प्रतीतिः, ततो वस्त्राणां, ततश्चन्दना- ऽऽभरणानामिति । आयुधानि गणयति ॥ धनुरिति॥ धनुर्वामभागहस्ते, शूलमिषुश्च दक्षिणयोः । चर्मवामे, असिर्दक्षिणे, शङ्खो वामे, चक्रं दक्षिणे, गदा वामे इति गदान्तानि विभर्त्तीति गदाधरा ॥१०॥
तस्याः स्वरूपं भगवत इव सर्वजनीनमिति ज्ञापयितुमाह--