पृष्ठम्:श्रीसुबोधिनी.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 उपगृहयेति ॥ एवमात्मजामुपगृह्य विलापनपूर्वकं रुदन्त्या हस्तात् तां बालामाचिच्छिदे । देवकी विनिर्भत्स्य । विनिर्भर्त्सने हेतुः, तां याचितः सन् | आत्मजामिति ॥ आत्मनो भगवतः सकाशाज्जाताम् । व्यवहारे शब्दाः परमार्था एवेति न्यायाद्देहादावात्मशब्दवद् आत्मजशब्दोऽपि पुत्रत्वेन परिग्रहमात्रत्वेऽपि वक्तुं शक्यते । एवमिति पदादेतानीदृशानि वाक्यानि बहुवारमुक्तानीति ज्ञापितम् । रोदनं यशोदाकन्यकेति, दीनादपि दीना । यथा दैवहता पुत्रभर्त्रादिरहिता व्याधिग्रस्ताऽपि भवति सा दीनदीना तथेयं स्वपुत्रनाशं दृष्टवती परापत्यनाशमपि पश्यतीति ॥ हस्तादिति ॥ एकेन हस्तेन तस्या एक हस्तं धृत्वा द्वितीयेन तस्या द्वितीयहस्तादाचिच्छिदे । एवं करणे हेतुः,खल इति ॥७॥ॐ ॥ ॥ गृहीत्वा यत् कृतवाँस्तदाह-

|


 तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् ॥
 अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥८॥


 तां गृहीत्वेति ॥ चरणयोरिति मारणार्थमेव विपरीततया ग्रहणमात्रेणैव तस्या नाशः सूचितः । जातमात्रामिति ॥ नालादिसहिताम् । अतिकोमलत्वप्रदर्शनेन तस्य खलत्वं समर्थितम् । स्वसुः सुतामिति सर्वथा विरुद्धकर्तृत्वमुक्तम् । अपोथयत् प्रक्षाल्यमानवस्त्रमिव प्रक्षिप्तवान् । शिला अङ्गणस्था यथा स्नानार्था भवति । ननु सौहार्द्दमुभयविषयकं कथं त्यक्तवानित्याह ॥ स्वार्थोन्मूलितसौहृद इति ॥ स्वार्थमुन्मूलितं सौहृदं येन ॥ ८॥

 ततो यज्जातं तदाह-


 सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बरं गता।
 अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥९॥