पृष्ठम्:श्रीसुबोधिनी.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
जन्मप्रकरणम्अध्ययः

बहवो हिंसिता भ्रातरिति । स्त्रिया मारकत्वं शास्त्रे न सिद्धम् । पुत्रास्तु हता एव । यद्यप्येक एव मारणीयः, तत्स्थाने बहवो हताः । भ्रातरिति संबोधनं दयार्थम् । आकृत्या पराक्रमोऽपि तेषु संभाव्यत इति तदर्थमाह ॥ पावकोपमा इति ॥ स्नेहे त्यक्ष्यतीति । तस्य दोषाभावमाह ॥ त्वया दैवनिसृष्टेनेति । अनुरक्तो गुणान् ब्रूत इति वाक्यादेवेन भगवदिच्छया प्रेरितेन भवता पुत्रा हताः। एषा तु अवध्येति दैवेन न प्रेर्यत इति भावः। एका इयं पुत्रिका अभ्रातृमतीति इमामप्यन्ततोगत्वा पुत्रिकाधर्मेण दत्वा ससन्ताना भविष्यामीति ज्ञापयति ॥ एकेति, यद्यपरा उत्पत्स्यते तदा मारणीयेति ज्ञापितम् । प्रकर्षेण दीयतामिति कालान्तरेऽप्यमारणीया ॥५॥

 अवश्यं दाने हेतुमाह-


 नन्वहं ते ह्यवरजा दीना हतसुता प्रभो॥
 दातुमर्हसि मन्दाया अङ्गमा चरमा प्रजाम् ॥ ६ ॥


नन्वहमिति ॥ अवश्यदानमेव फलम् । नन्विति संबोधनं युक्तिग्रहणार्थम् ॥ अहं ते ह्यवरजेति ॥ अवरजत्वे उभयानुभवः प्रमाणम् ,अवरजा दयापात्रम् । दीना दुःखिता शोकादिना तत्र हेतुः, हतसुतेति ॥ प्रभो इति संबोधनं, दानसामर्थ्यद्योतनार्थम् । अत एव दातुमर्हसि ॥ मन्दाया इति । अतः परं रजोऽभावः सूचितः । अतश्चरमां प्रजाम् ॥ इमामिति ॥ अन्या कन्यात्वेन न देया, इयमेव देयेति ॥ ६॥

 तथापि न त्यक्तवानित्याह-


 उपगूह्यात्मजामेवं रुदन्त्या दीनदीनवत् ।।
 याचितस्तां विनिर्भर्स्त्य हस्तादाचिच्छिदे खलः ॥७॥