कन्याया मारणं स्वपुत्रमारणादप्यधिकदुःखदं जातमिति ज्ञापयितुं तस्या वाक्यमाह-
तमाह भ्रातरं देवी कृपणा करुणं सती ॥
स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥४॥
तमाहेति, त्रिभिः ।। त्वदीया कन्यका चेयमतो मह्यं
प्रदीयताम् *। भगिनी दानपात्रं हि हेतुकार्यं फलैत्रिभिः ॥ तं कसं
भ्रातरमाह । यतो देवी सात्त्विक्यपि स्त्री ज्ञात्वा वा दैन्यप्रदर्शनाऽर्थं
तथा कृतवतीति, असत्यमपि प्राणसंकटे परार्थं वक्तव्यमिति
ज्ञापनार्थं वा । कृपणा अनालोचितयाचिका । कृपणः स तु
विज्ञेयो योऽनालोचितयाचक इति वाक्यात् । करुणं यथा भवति
तथा तमाहेति संबन्धः । सतीति कालज्ञानाद्याचनं सर्वात्मकत्वाद्
भगवतस्तथा करिष्यति । भर्त्तुर्द्दषनिवृत्त्यर्थं वा सतीति । अन्यथा
स्वपुत्रं स्थापयित्वा परकन्यामारणे दोषः स्यात् ।। स्नुषेति ॥
मातुलकन्यापरिणयनपक्षे पितृष्वसुरपि कन्या परिणेया । यथा
मित्रविन्दा । यदा कंसस्य पुत्रो देवकीकन्यामुद्वहेत्तदेयं स्नुषा
भवति । अनेन तस्याः स्वकन्यात्वं सहजमित्युक्तम् ।
ननु पुत्र एव नास्ति कथमियं स्नुषेतिचेत्तत्राह ॥ कल्याणेति ॥
त्वं पुत्रजननसमर्थः । मदपत्यरक्षणेन तवापि पुत्रो भविष्यतीति ।
अथवा मा स्नुषा, तथापि स्त्रियं हन्तुं मार्हसि । अन्यथा
अहमेव कथं न हता । स्त्रियाः, स्वसुर्गुरुमत्या
वधोऽयमिति यतस्त्वयैव निरूपितम् ॥ ४॥
अष्टमो मारणीय इतिचेत्तत्राह-
बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ॥
त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥५॥