पृष्ठम्:श्रीसुबोधिनी.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
जन्मप्रकरणम्अध्यायः

वृत्तस्यापि भयस्य जननार्थं रोदनमपि कृतवती । तेन रोदनेन सर्वेषां जागरणं जातमित्याह ॥ तत इति ।। बालस्योत्पन्नस्य ध्वनिं श्रुत्वा गृहपालाः सूतीगृहरक्षकाः सम्यगुत्थिताः ॥१॥ तेषां कृत्यमाह..


 ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् ॥
 आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ॥२॥


 तेत्विति ॥देवक्यादिभिः मार्थिता अपि तत्मार्थनां न कृतवन्त इति ज्ञापनार्थस्तुशब्दः ॥ तूर्णमिति मध्ये कृत्यान्तरव्यात्यर्थम् । दुरात्कथने निलायनादिकं संभविष्यतीति तन्निवृत्त्यर्थमुपत्रज्येत्युक्तम् । देवक्या गर्भस्य जन्म, न तु पुत्रः, कन्यका चेति भेदः ॥ तद् अतिप्रसिद्धमष्टमम् ॥ अकथनेऽनिष्टं करिष्यतीति ज्ञापनार्थं, भोजराजायेत्युक्तम् । जन्म च प्रतीक्षत एव, कदा भविष्यतीति । अर्थादेतादृशाय । प्रतीक्षायां हेतुमाह ॥ उद्विग्न इति ॥ २॥


 स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः ॥
 सूतिगृहमगात्तूर्णं प्रस्खलन मुक्तमूर्द्धजः ॥३॥


 ततः कंसस्य कृत्यमाह ॥ सोऽपि शय्यायां पतित एव स्थितः स महानपि तल्पाच्छय्यातस्तूर्णमविचारेण प्रथमत उत्थितः पश्चात् कालोऽयमिति विह्वलः । अतः परं जीवनसंभावना नास्तीति निश्चयात् । अयं भगवानेव कालो मृत्युदः । विद्वलः सर्वावयवविकलः। सूतीगृहं प्रसूतिस्थानम् । शीघ्रामिति सर्वकार्यपरित्यागे सर्वसाधनाननुसंधाने हेतुः । प्रस्खलन्निति मागाँज्ञानं, मुक्तमूर्द्धज इति देहाज्ञानम् ॥ ३॥

 दृष्ट्वा लिङ्गमज्ञात्वा पुत्रबुद्ध्यैव मारणार्थं प्रवृत्तौ यशोदायाः