पृष्ठम्:श्रीसुबोधिनी.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


चतुर्थोऽध्यायः ॥ १० ॥४॥

 मायायाः कार्यमधुना चतुर्थे विनिरूप्यते*|अन्यथा भगवत्कार्यं न भवेदनिमित्ततः ॥ ज्ञापने दुःखसुखदे ततोऽपि ज्ञापने तथा * कंसस्य सहभृत्यस्य धर्मवाधो न चान्यथा ॥ तामसप्रभुके राज्ये कृतो धर्मस्तु तद्गतः । अतः पूर्वस्य नाशो वै कर्तव्यं तामसाश्च ते ॥ ब्राह्मणा अपि तद्देशे स्वभावात्तामसा मताः *। कालस्तथाविधो यस्मात् पश्चाज्जातस्तु सात्त्विकः ।।  भगवत्कार्यवैपरीत्यं मायाकार्य इति ज्ञापयितुमुद्घाटित- कपाटानां द्वाराणां पुनः पिधानमाह-



 बहिरन्तः पुरद्वारः सर्वाः पूर्ववदावृताः॥
 ततो बालध्वनि श्रुत्वा गृहपालाः समुत्थिताः॥१॥


 बहिरन्तरिति ॥ पुरो बहिार्द्वाराणि अवान्तरद्वाराणि च सर्वाः पूर्ववदेवावृताः । वैलक्षण्ये रक्षकाणां ज्ञानसम्भवाज्ज्ञानं भवेदिति । पुनर्बन्धनं मायाकार्यमुक्त्वा, पूर्वं वसुदेवदेवक्योर्नि




 अनिमित्त इति ॥ भक्तदुःखाभावादित्यर्थः । ज्ञापने इति || मायाकृतरोदनेन स्वज्ञापनम् । ततो गृहपालकृतबालजन्मज्ञापनं च कंसे। एते उभे अपि तथेत्यर्थः ॥ ततोऽपीति ॥ एतदुभयज्ञापनानन्तरं, यत्र क्वावां जातइति मायाकृतं भगवजन्मज्ञापनं, कसकृतज्ञापनं च मन्त्रिषु। एते उभे अपि दुःखसुखदे इत्यर्थः ॥ न चान्यथेति ॥ मायामोहं विनेत्यर्थः । ननु धर्मस्थापनहेतोर्भगवदवतारस्य तन्नाशहेतुत्वं कथमुच्यते। जातः खलु तवान्तकृद्, यत्र कवेति वाक्यश्रवणेनैवानिर्दशान्निर्दशांश्चेत्यादिमन्त्रणस्य जातत्वादित्यत आहुः ॥ तामसप्रभुक इति॥ तामसाश्च त इति तद्धताः पश्चादयइत्यर्थः । एवमपि कण्टकन्यायेन धर्मप्रतिपक्षदूरीकरणं युक्तमितिभावः।। पश्चादिति ॥ तमःकार्यनिवृत्तेः पश्चाजातो धर्मस्तथेत्यर्थः ॥