नन्दब्रजं शौरिरुपेत्य तत्र तान्
गोपान् प्रसुप्तानुपलभ्य निद्रया ॥
शिशुं यशोदाशयने निधाय तत्-
सुतामुपादाय पुनर्गृहानगात् ॥ ५१ ॥
नन्दव्रजमिति ॥ शौरिरित्यऽभये। नन्दस्य च मित्रत्वात्
व्रजे च गवामपि कदाचिच्छब्दो भवति । अतः पुरुषगमनशब्देनापि
न तत्रत्यानां जागरणम् । उपेत्य समीपे गत्वा । अनेन शनैर्गमनं
सूचितम् । तत्र च तान् सर्वदाजागरणयुक्तानपि, तदा
प्रसुप्तानुपलभ्य । केवलमपि शयनं सम्भवतीति निद्रयेत्युक्तम् ।
शिशुं बालकं भगवन्तम् । भगवत्त्वज्ञानेन पुत्रत्वस्य
वक्तुमशक्यत्वान्नामान्तराणामकृतत्वाद् भगवत्त्वे
स्थापनस्यायुक्तत्वाच्छिशुमित्युक्तम् । शयने शय्यायाम्
अयुक्तामित्याशङ्क्य शयनपदं दत्तम् । यशोदायाः शयने सति ।
यशोदायाः शयनं यत्रेति निधाय नितरां स्थापयित्वा तत्सुतां
मायामुपादाय पुनस्तेनैव मार्गेण स्वगृहानगात् ॥ ५१ ॥
देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।।
प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ॥५२॥
ततो देवक्याः शयने तस्या अपि शय्यास्थानं कृत्वा तां
स्थापयित्वा ॥ अथेति, भिन्नप्रक्रमे । यशोदाशयने तूष्णीं
शनैरज्ञापयन् । अत्र तु तदभावः । दारिकां कन्याम् ।
अनादरे दारिका । स्वयमेव पदोः पादयोर्लोहं प्रतिमुच्य
पूर्ववदेव यदा भगवज्जन्म न जातं तदा यथा ॥ ५२ ॥
अत्र यशोदायाः शयनं न सम्भवति । प्रसवे लोके अज्ञानाऽसम्भवादित्याशङ्क्याह-