गम्भीरतोयौघवोर्मिफेनिला ॥
भयानकावर्तशताकुला नदी
मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५० ॥
मघोनि वर्षतीति ॥ भगवज्जन्मसमये सर्वतो निवृत्ता
अपि मेघा मायाजन्मनि सर्वे समागताः । इन्द्रोऽपि मायामोहितो
मेघप्रेरको जातः । केवलाश्चेद् भगवति गच्छति निवृत्ता अपि
भवेयुः । अल्पानां मोहितानामल्पधैर्यवत्वेन महति विरोधासम्भवात् ।
अत आह । मघोनीन्द्रे असकृद्वषति सति । स्वभावतोऽपि यमुना
क्रूरेत्याह ।। यमाऽनुजेति ॥ अत एव गम्भीरतोयौघजवोर्मिफेनिला ॥
गम्भीरो भयानकोऽगाधो यस्तोयौघः,तस्य जवेन वायुवशाच ये ऊर्मयः,
तत्सहिता फेनिला च । त्रिविधोऽपि दोषस्तस्या निरूपितः । अतिवेगो
राजसः, फेनादिस्तामसः । एवं कालकृतं दोषमुक्त्वा स्वाभाविकदोषमाह ॥
भयानकावर्त्तशताकुलेति ॥ भयानका भयजनका ये आवर्ता भ्रमरास्तेषां
शतैराकुला समप्रवाहरहिता व्यग्रा वा आवर्तास्तामसाः, वैयग्यं राजसम्।
एवं स्वाभाविका अपि त्रयो दोषाः। एवं दुष्टापि भयान्मार्गं ददौ । सर्वा
नद्यः समुद्रपत्न्यः। रामाऽवतारे समुद्रोऽपि मार्गमप्रयच्छन् शोषितः । किं
पुनस्तस्याल्पसत्त्वा भार्या । अतः स्वरूपादेव प्रच्युता भविष्यामीति
सिन्धुरिव मार्गं ददौ । किञ्च, यमुनाजले अग्रे लक्ष्मीभिः सह क्रीडां
करिष्यति । अतः सन्तोषादपि ददौ । यथा लक्ष्मीपतेर्जामातुः
श्वशुरः समुद्रः कदाचित् स्वगृहे नयन् मार्गं प्रयच्छति । अथवा
श्रीः सीतैव । तस्या एकस्याः कामुकश्चेत् समुद्रशोपं कृतवान् ,
बहूनां गोपिकानां कामुकः कथं न कुर्यात् ॥ ५० ॥
एवंमार्गवन्नदीमुर्त्तीय गोकुले गतस्य कृत्यमाह-