पृष्ठम्:श्रीसुबोधिनी.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तत्र आयसाः कीलाः शृङ्खलाश्च यासु । कीलसहिता वा शृङ्खला यासु । कुञ्चिकयैव उद्घाटयितुं शक्याः। कुञ्चिकाऽपि विषमा । एतादृशा अपि, कृष्णवाहे वसुदेवे समागते स्वयमेव व्यवर्यन्तविशीर्णा जाताः । स्वयमेवोद्घाटितकपाटा जाताः। भगवतः सर्वमोक्षदातृत्वात् कपाटानामप्यचेतनानामतितामसैर्बद्धानां मुक्तिः प्रदर्शिता । अनेनान्येषां मुक्तिर्व्याख्याता, यदि शुद्धसत्त्वं भगवद्वाहकं च चेद्भवति । एतत्प्रदर्शनार्थमेव कृष्णवाहे वसुदेव इत्युक्तम् । अयमेवोपाय इति ज्ञापयितुं दृष्टान्तमाह ॥ यथा तमो रवेरिति ।। उपायसहस्रेणापि सर्वं तमो न गच्छति । उदिते तु सूर्ये स्वत एव गच्छति । तथा शुद्धसत्त्वे भगवत्सहिते सत्येव सर्वाविद्यानाशः, सर्वासाध्यानां स्वत एव सिद्धिर्नान्यथेति निरूपितम् । अन्तर्द्वारेषु निर्गतेषु मायायाः प्रवेशे उभयोः सांमुख्ये यदासीत्तदाह । ववर्षेति ॥ वृष्टिरपि सर्वेषामनुत्थाने हेतुः, उपांशुगर्ज्जितं चानुत्थाने शब्दान्तरपतिबन्धे च । अधिकगर्ज्जने ने तेनैव प्रबोधः । एतावन्मायाकार्यं साधारण्येन प्रवृत्तं वसुदेवस्यापि खेदहेतुर्भवति । अतस्तन्निवारणार्थ शेषोऽन्वगात् पातालात् समागत्य फणैः पर्जन्यवारि निवारयन् अन्वगात् । पश्चाद्भागेन गतवान् । भगवत्सम्बन्धात्तत्कृतं तु भयं न भवति । अन्तरिक्षे निवारयन् गच्छतीत्येके । फणैरिति पदात् । अन्वगादिति च पश्चादेव छत्रधारीव गच्छतीति ज्ञायते ॥ ४८ ॥ ४९ ॥

 यथा यथा गोकुलनिकटे गमनं तथा तथा मायासान्निध्याद् गमने क्लेशाधिक्यं, भगवत्सान्निध्याच तदभाव इति ज्ञापयितुं यमुनोत्तरणमकारमाह-


 मघोनि वर्षत्यसकृद्यमानुजा