याः स्वतन्त्रज्ञानपक्षं व्यावर्तयितुं, नन्दजायया जनितेत्युक्तम् ।
न तु भगवानिव सा स्वत आविर्भूतेति ॥ ४७ ॥
तस्याः कार्यमाह-
तथा हतप्रत्ययसर्ववृत्तिषु
द्वाःस्थेषु पौरेष्वनुशायितेष्वथ ॥
द्वारस्तु सर्वाः पिहिता दुरत्यया
बृहत्कपाटायसकीलशृङ्खलैः ।। ४८ ॥
ताः कृष्णवाहे वसुदेव आगते
स्वयं व्यवर्यन्त यथा तमो रवेः ।।
ववर्ष पर्जन्य उपांशुगर्जितः
शेषोऽत्वगादू वारि निवारयन् फणैः ॥ ४९ ॥
तयेति ॥ तया मायया हताः प्रत्ययानां सर्ववृत्तयो येषु
जाग्रत्स्वापयोः प्रत्ययानां ज्ञानानां वृत्तय संशयादय उत्पद्यन्ते ।
मायामोहितास्तु मूछिता एव जाताः । जगति तस्यामुत्पन्नायां
तत्प्रभावः । यशोदादयस्तु मुग्धा एव, गोकुलवासिनश्च ।
ततः क्रमेण मथुरायां द्वास्थास्ततः पौराः । न केवलं पूर्ववद्
बुद्धिरेव गृहीता, किन्तु निद्रयातिरिक्तबुद्धिरपि सम्पादिता ।
यथा भूयान् कालो लोकान्तरं गतानामिव मुग्धतया गच्छति,
तथा अनुशायितेषु सुषुप्तिं प्रापितेषु सत्सु । इयं हि माया
एतावत् कार्यमेव कृतवती । अन्यत् त्वन्यथा जातमिति वदन्
प्रक्रमान्तरमाह ॥ अथेति ।। पूर्वं तैरेव द्वारपालकैः सर्वा एव
द्वारो बृहत्कपाटायसकीलशृङ्खलैः पिहिताः, स्वभावतोऽपि
दुरत्ययाः। गजा व्याघ्राः क्वचित् सिंहा विषमाश्चैव भूमयः *।
दिवसेऽपि गतौ नित्यं सर्वथा भयहेतवः ॥ येषु द्वारेषु गमनमात्रेऽपि
साधारणानां बन्धो भवति । तत्रापि पिहिताः। बृहन्ति कपटानि