ता ॥ शौरिरिति गमने भयाभावः ॥ स इति भगवद्वाक्ये
विश्वासः । सुतमिति तस्यापि पुत्रत्वबुद्धिः प्राकृतेव जातेति
ज्ञापितम् ॥ सूतिकागृहादिति ॥ प्रसवधर्मास्तत्रापि गृहे आविर्भूताः,
देवक्या अपि सूतिकात्वं जातम् । साधारणमोहस्य निवर्त्तकं
साधारणं ज्ञानामिति । गमनस्वाच्छन्द्यं कपाटोद्घाटनं च ।
आत्मन इव देहस्यापि विस्मरणं यथा भवति तदर्थं तस्मिन्नेव
समये योगमाया जाता । भगवत्समानकाले चेज्जाता भवेत्
तदा देवकीवसुदेवयोरपि प्रस्वापः स्यात् । अनेन मुहूर्तानन्तरं सा
जातेति ज्ञायते । नवम्यां च सा जाता, रोहिणी तु तुल्या ।
अतो रोहिण्याः कृत्तिकावेधो न दोषाय । सप्तमीवेधस्तु दोषायैव।
पुत्रोत्सवाऽऽदिकं शुद्धनवम्यामेव जातमिति शुद्धाऽष्टम्यभावे
नवम्यप्युपोष्या । अन्तःस्थिते भगवति मायोद्गमो न भवतीति
यदैव बहिर्गन्तुमियेष तर्ह्येव जातेत्युक्तम् । सा हि योगार्थमेव
माया भगवतः कार्योपायार्थमेव लोकान् व्यामोहयतीति। माया-
सर्वमोहनस्वभावायास्तस्या आविर्भावे वसुदेवे तथात्वं कुतो नेत्याशङ्क्य तन्निवारणाय, भगवत्प्रचोदित इति पदतात्पर्यमाहुः ॥ साधारणमोहस्येति ॥ भगवता गोकुले स्वनयनार्थं ततः कन्यायाश्चाऽऽनयनार्थं स प्रेरित इत्येतावति कार्ये भगवज्ज्ञानशक्त्यैव व्याप्त इति योगमायाजनितसर्वसाधारणमोहस्य निवर्तकमुक्तरूपं ज्ञानमिति तथेत्यर्थः । यथाऽन्यः कश्चिन्चौर्येण गच्छन् पद्भ्यां शनैश्च गच्छति स्वचातुर्येण, तथैव वसुदेवोऽपीति ज्ञाने साधारणत्वम् । अन्यथा गोपाला भाण्डीरमिवायमपि गोकुलं प्रापितः स्यात् । यद्वा भगवद्विषयकज्ञानतारतम्येन मोहाऽपगमतारतम्यमिति भगवति लोक साधारणं ज्ञानमधुनास्यास्तीति तादृङ्मोहोऽप्यपगतइति तथेत्यर्थः तावान् वाह्योऽपि बन्धो निवर्तत इत्याहुः ॥ कपाटोदुघाटनं चेति तदा देवकीत्यादि । दर्शनेन हि मोहाभावः । समानकालत्वे जन्मनं दर्शनलक्षणो मोह एव भवेदित्यर्थः ।।