पृष्ठम्:श्रीसुबोधिनी.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
जन्मप्रकरणम्अध्यायः । ३


ति ॥ लौकिकज्ञाननैपुण्यं मातुः परमार्थज्ञाननैपुण्यं पितुः । उभयमपि विद्यमानमेव न भगवत्सामथ्र्यस्य प्रतिबन्धकम् ॥४६॥

 एवं स्वीकृत्य रूपान्तरं तत्र स्थितौ प्रयोजनाभावात् स्वयं गमने रूपान्तरस्वीकारवैयर्थ्यात् तस्य चाज्ञानात् सर्वसमाधानार्थं तं बोधयित्वा तद्द्वारा स्वयं गोकुले गतवानित्याह-


 ततश्च शौरिभगवत्प्रचोदितः
 सुतं समादाय स सूतिकागृहात् ।।
 यदा बहिर्गन्तुमियेष तर्ह्यजा
 या योगमायाऽजनि नन्दजायया ॥४७॥।


 ततश्चेति॥ प्राकृतभावानन्तरं शौरिश्चकारादाज्ञापनानन्तरं च सुतं भगवन्तं समादाय सम्यग्गृहीत्वा उत्तमपात्रं वस्त्रं च प्रसार्य तदुपरि स्थापयित्वा स सूतिकागृहाद् यदा बहिर्गन्तुमियेष तर्हि तस्मिन् समये नन्दजायया योगमाया अजनि जनि




प्रसिद्धः पुरुषोत्तमः शिशुर्बभूवेत्यर्थः। तयोः सम्पश्यतोरेव तथाकरणे उपपत्तिमाहुः ।। लोकिकज्ञानेत्यादिना ॥ सामथ्येस्य, सामथ्येप्रकटनयेत्यर्थः । इदमत्राकूतम् । अनेनैव रूपेणाधुनैव कंसं मारयित्वा सर्वसमाधानं कर्तुं सामर्थ्यं सत्यपि यदूपन्तिरप्रकटनं तत्, समुद्वेजे भवद्धेतोरधीरधीरित्यादिवाक्यैलौकिकरीत्यैव स्नेहातिशयो जायते । येन भगवतः कंसाभिमुखत्वमात्रेऽपि प्राणापगमो भवेत् । लोकविद्वेषभिया रूपोपसंहारप्रार्थनेनापि लौकिकरीत्यैव स ज्ञाप्यते गरातुः । पितुस्तु पूर्णमाहात्म्य ज्ञानवत्त्वेनोक्तशङ्काभावेऽप्यनेनैव रूपेण अधुनैव कंसमारणे भक्त दुःख निवृत्तौ सत्यां स्थिती प्रयोजनाभावास्माकं पुनदर्शनं न भविष्यति चेन्न प्राणस्थितिर्भविष्यतीत्यभिशयेण तदवृत्तान्तकथनादेतद्रूपोपसंहारेऽन्यत्राधुना गमनमभिप्रेतमिते ज्ञायते । अन्यथा माहात्म्यज्ञानवत्त्वेन सर्वज्ञातामपि प्रभोर्जानातीते न तन्निवेदयेत् । तथाच तदा तद्दर्शनसत्त्वोक्त्या तज्ज्ञानस्योक्तरूपस्य हेतुत्वं सूच्यत इति युक्तं तथात्वमिति ॥