द् दृष्टः प्रकटो वा जात इति योजना । तत्राऽभवद्भगवान् व्यासपुत्र
इत्यत्रेवात्राप्यासीदिति पदस्य नोत्पत्तिरर्थः । जातो हि बालो रोदिति।
तच्च द्वाःस्थजागरणहेतुरिति तूष्णीं तथासीत् । अपरोक्षत्वेऽप्यलौकिकत्वेन
ज्ञानाभावात् सोंऽशः परोक्ष एवेति लिटप्रयोगः । अपरं च । इह हि
तत्तत्क्षणसम्बन्धित्वेनोच्यमानापि सर्वा लीला तथाभूतैव शुद्धब्रह्मधर्मरूपा
नित्यैवेति, कृतागसं तमितिश्लोकोक्तरूपवन्नालादिसहितशिशुरूपस्यापि
शुद्धब्रह्मत्वाद्यथाश्रुतेऽपि न काऽप्यनुपपत्तिः। तच्छ्लोकोक्तरूपस्यैव,
नचान्तरित्यादिना शुद्धब्रह्मत्वमने शुकेनोक्तमिति न काचिच्छङ्कात्र ।
लीलाया निरोधार्थत्वाद् यथैव सम्भवति तथैव करोतीति न
प्राकृतानुकरणलीलायां काचिन्त्यूनता । प्रत्युत भक्तार्थ एवमपि
करोतीत्युद्भुतमाहात्म्यख्यापकमित्येतत्सर्वं हृदि कृत्वा स्वस्यैव
सर्वभवनसामर्थ्येन तथा कृतवानित्याद्युक्तमिति ज्ञेयम् । बबन्ध
प्राकृतं यथेति प्राकृतदृष्टान्त उक्तोऽग्ने। अथवा
शेषाधिकाण्प्रत्ययान्तोऽत्र प्रकृतिशब्दः । तेन यथा चक्षुषा ग्राह्यं
रूपं चाक्षुषमित्यादिशब्दास्तथायमपीति प्रकृत्या ग्राह्यः प्राकृत
इत्यर्थः सम्पद्यते । लौकिकालौकिकभेदेन हि द्विविधा जीवाः। तेषां
प्रकृतिरपि तथा । तथाच, मल्लानामशनिरितिश्लोकोक्तरीतिवद्
अलौकिकप्रकृतिभिरलौकिकत्वेन ग्राह्यो
लौकिकप्रकृतिभिलौकिकत्वेनेत्येतादृशो, वस्तुतस्त्वलौकिक एव
शिशुर्बभूवेत्यर्थः सम्पद्यते। अत्र लौकिकव्यवहारोपयोगि ज्ञानं
लौकिकं, तद्वन्तस्तथा । शास्त्रीयं ज्ञानमलौकिकम्
तद्वन्तस्तथेत्युच्यन्ते । तेन नन्दादीनां लौकिकत्वेन
भानेऽपि लीलाया अलौकिकत्वात्तन्मध्यपातित्वेन तज्ज्ञानादीनां न
लौकिकत्वम् । तेषां पुत्रत्वादित्वेन शानं शास्त्रेणानूद्यते परं, न तु
विधीयत इति शास्त्ररोतिमपेक्ष्य लौकिकत्वम् उच्यते । नैतावता
काचिन्न्यूनतात्र । लीलात्वेनालौकिकत्वमुक्तमेव । यद्वा प्रथमस्कन्धे
भीष्मोक्तौ,प्रकृतिमगन् किल यस्य गोपवध्वइत्यत्रेवात्रापि प्रकृतिशब्दो
भगवत्स्वरूपवाची। तथाच पूर्ववत् प्रकृत्या स्वरूपेणैव ग्राह्यः। तथा,
न तत्र सूर्यो भातीत्यादिश्रुतिभिः, नाहं वेदैरित्यादिस्मृतिभिश्चेतरसाधननिषेधाच्छ्रुत्यन्तरे
च, नायमात्मा प्रवचनेन लभ्यइत्यादिनेतरसाधननिषेधपूर्वकं, यमेवैष
वृणुते तेन लभ्य इत्यादिना भगवतैव भगवॉल्लभ्य इति निरूप्यते ।
तथाचैतादृशशुद्धब्रह्मरूपो लोकवेद-
पृष्ठम्:श्रीसुबोधिनी.pdf/१७८
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे